मेषम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद मेषं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो अपश्यज् जनितारम् अग्रे तेन देवा देवताम् अग्रम् आयंस् तेन रोहम् आयन्न् उप मेध्यासः शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद शरभं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछतु ॥म्स्_२,७।१७॥