वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् पवमानम् आभृतम् ॥म्स्_२,७।१६॥
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्त्य् आशवः ॥
युक्ष्वा हि देवहूतमं अश्वं अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥
सम् इत् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः ।
घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्ये अग्नेः ॥
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वाभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य चाग्निस् तेजसा तेजस्वान् रुक्मो वर्चसा वर्चस्वान् सहस्रदा असि सहस्राय त्वा ॥
आदित्यं गर्भं पयसा समङ्ग्धि सहस्रस्य प्रतिमां विश्वरूपम् ।
परिवृङ्ग्धि हरसा माभिशोचीः शतायुषं कृणुहि चीयमानः ॥
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानं सलिलस्य मध्ये ।
शिशुं नदीनां हरिम् अद्रिबुध्नम् अग्ने मा हिंसीः परमे व्योमन् ॥
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर् ऋतुशः कल्पमानो गां मा हिंसीर् अदितिं विराजम् ॥
त्वष्टुर् वरुत्रीं वरुणस्य नाभिम् अविं जज्ञानां रजसः परस्मात् ।
महीं साहस्रीम् असुरस्य मायाम् अग्ने मा हिंसीः परमे व्योमन् ॥
यो अग्निर् अग्नेस् तपसो ऽधि जातः शोकात् पृथिव्या उत वा दिवस् परि ।
य इमाः प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥
इमं मा हिंसीर् द्विपादं पशुं सहस्राक्षो मेधाय चीयमानो मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद मयुं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमं मा हिंसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद गौरं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमं साहस्रं शतधारम् उत्सं व्यच्यमानं सलिलस्य मधे घृतं दुहानाम् अदितिं जनायाग्ने मा हिंसीः परमे व्योमन् ॥
गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद गवयं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमम् ऊर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदां त्वष्टुर् देवानां प्रथमं जनित्रम् अग्ने मा हिंसीः परमे व्योमन् ॥