तस्यै ते देवीष्टके विधेम हविषा वयम् ॥म्स्_२,७।१५॥
यास् ते अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो अद्य सर्वाभी रुचे जनाय नस् कृधि ॥
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धेहि बृहस्पते ॥
विराड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयद् भूर् असि भुवनस्य रेता इष्टका स्वर्गो लोको मनसा त्वान्वारोहाम्य् अग्निर् ज्योतिर् ज्योतिर् अग्निस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद सूर् असि सुवनस्य रेता इष्टका स्वर्गो लोको वाचा त्वान्वारोहामि सूर्यो ज्योतिर् ज्योतिः सूर्यस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद बृहस्पतिष् ट्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछाग्निष् टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछ वायुष् टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछ सूर्यस् ते ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
अषाढासि सहमाना सहस्वारातिं सहस्व पृतनायतः ।
सहस्रवीर्यासि सा मा जिन्व ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ॥
मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः ।
मधु द्यौर् अस्तु नः पिता ॥
मधुमान् नो वनस्पतिर् मधुमं अस्तु सूर्यः ।
माध्वीर् गावो भवन्तु नः ॥
अपां त्वा गह्मन्त् सादयामि समुद्रस्योद्मन्न् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे ऽनु त्वा दिव्या वृष्टिः सचतां मा त्वा सूर्यो ऽभिताप्सीन् माग्निर् वैश्वानरो ऽछिन्नपत्रः प्रजा अनुवीक्षस्व ॥
त्रीन्त् समुद्रान्त् समसृपत् स्वर्गो ऽपां पतिर् वृषभ इष्टकानाम् ।
तत्र गछ यत्र पूर्वे परेताः पुरीषं वसानः सुकृतस्य लोकम् ॥
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥
इदं विष्णुः ॥
अध स्मा ते वनस्पते वातो विवात्य् अग्रम् इत् ।
उतो न्व् इन्द्राय पातवे सुनु सोमम् उलूखल ॥
नक्तोषासा ॥
स्यूता देवेभिर् अमृतेनागाद् उखा स्वसारम् अधि वेदिम् अस्थात् ।
सत्यं पूर्वैर् ऋषिभिः संविदानो अग्निः प्रविद्वं इह तत् कृणोतु ।
पृथिवि पृथिव्यां सीद मातुर् मातरि माता ।
स्योनासि सुषदा स्योनाम् आसीद सुषदाम् आसीद ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥
क्रतुं देवानां महिमानम् ईमहे अग्निं सधस्थे सदनेष्व् अद्भुतम् ।
वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निदधे पुरीष्यम् ॥
न्यधुर् मात्रायां कवयो वयोधसो अग्निं सधस्थे सदनेष्व् अच्युतम् ।
वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निहितं पुरीष्यम् ॥
समिध्यमानं समिधा समिन्धते अग्निं सधस्थे सदनेषु सुक्रतुम् ।