१४

आप्यायमानो आमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥म्स्_२,७।१४॥

ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

अद्भ्यः सम्भृतः पृथिव्या रसाच् च विश्वकर्मणः समवर्तताधि ।
तस्य त्वष्टा विदधद् रूपम् एति तत् पुरुषस्य देवम् आजानम् अग्रे ॥

द्रप्सश् चस्कन्द ॥

नमो अस्तु सर्पेभ्यो ये केच पृथिवीम् अनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

य इषवो यातुधानानां ये वनस्पतीनाम् ।
ये ऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

ये अमी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
ये अप्सु षदांसि चक्रिरे तेभ्यः सर्पेभ्यो नमः ॥

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवं इभेन ।
तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥

तव भ्रमास आशुया पतन्त्य् अनुस्पृश धृषता शोशुचानः ।
तपोभिर् अग्ने जुह्वा पतङ्गान् असन्दितो विसृज विष्वग् उल्काः ॥

प्रति स्पशो विसृजा तूर्णितमो भवा पायुर् विशो अस्या अदब्धः ।
यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आदधर्षीत् ॥

उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रं ओषतात् तिग्महेते ।
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥

ऊर्ध्वो भव प्रतिविध्याध्य् अस्मद् आविः कृणुष्व दैव्यान्य् अग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्रमृणीहि शत्रून् ॥

अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
मूर्धा कवी रयीणाम् ॥

अग्नेष् ट्वा तेजसा सादयामि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥

इन्द्रस्य त्वौजसा सादयामि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ध्रुवासि धरुणास्तृता विश्वकर्मणा सुधृता मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृम्ह तेजो ऽसि तेजो मे यछ पृथिवीं यछ पृथिवीं दृम्ह पृथिवीं मा हिंसीः पृथिव्या मा पाहि ज्योतिर् असि ज्योतिर् मे यछान्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षं मा हिंसीर् अन्तरिक्षान् मा पाहि स्वर् असि स्वर् मे यछ दिवं यछ दिवं दृम्ह दिवं मा हिंसीर् दिवो मा पाहि ॥

यास् ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।
ताभिष् ट्वम् उभयीभिः संविदानः प्रजानंस् तन्वेह निषीद ॥

काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषस् परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥

या शतेन प्रतनोषि सहस्रेण विरोहसि ।