त्वष्टारम् अग्रीयं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥म्स्_२,७।१३॥
मा नो हिंसीज् जनिता यः पृथिव्या यो दिवं सत्यधर्मा व्यानट् ।
यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह ।
वपां ते अग्निर् इषितो अरोहत् ॥
अग्ने यञ् शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।
तद् देवेभ्यो भरामसि ॥
इषम् ऊर्जम् अहम् इत आदि घृतस्य धारां महिषस्य योनिम् ।
आ नो गोषु विशत्व् ओषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥
कामं कामदुघे धुक्ष्व प्रजाभ्या ओषधीभ्यः ।
इन्द्रायाग्नये पूष्णे मित्राय वरुणाय च ॥
अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो ।
बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
पुत्रो मातरा विचरन्न् उपावस्य् ओभे पृणासि रोदसी ॥
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य ।
स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं रयिम् ॥
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।
त्व एषः सन्दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥
ऋतावानं महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैवं मानुषा युजा ॥
इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगां महीम् इषं दधासि सानसिं क्रतुम् ॥
आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य सङ्गथे ॥
सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।