१२

ज्योतिर् आपाम ॥म्स्_२,७।१२॥

या ओषधयः प्रथमजा देवेभ्यस् त्रियुगं पुरा ।
मन्वे नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥

शतं वो अम्ब धामानि सहस्रम् उत वो रुहः ।
अथा शतक्रतो यूयम् इमं मे अगदं कृत ॥

पुष्पवतीः प्रसूवरीः फलिनीर् अफला उत ।
अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥

ओषधीर् इति मातरस् तद् वो देवीर् उपब्रुवे ।
रपांसि विघ्नतीर् इत रपश् चातयमानाः ॥

अश्वत्थे वो निवेशनं पर्णे वो वसतिः कृता ।
गोभाजा इत् किलासथ यत् सनवाथ पूरुषम् ॥

यद् ओषधयः सङ्गछन्ते राजानः समिता इव ।
विप्रः स उच्यते कवी रक्षोहामीवचातनः ॥

निष्कृतिर् नाम वो माताथा त्वम् असि सङ्कृतिः ।
सराः पतत्रिणीः स्थन यद् आमयति निष्कृत ॥

अश्वावतीं सोमवतीम् ऊर्जयन्तीम् उदोजसम् ।
आयुक्षि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥

यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥

उञ् शुष्मा ओषधीनां गावो गोष्ठाद् इवेरते ।
धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥

अति विश्वाः परिष्ठाः स्तेन इव व्रजम् अक्रमुः ॥

ओषधयः प्राचुच्यवुर् यत् किञ्च तन्वो रपः ॥

यास् त आविविशुर् आत्मानं या आतस्थुः परुःपरुः ।
तास् ते यक्ष्मं विबाधन्ताम् उग्रो मध्यमशीर् इव ॥

साकं यक्ष्म प्रपत चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥

अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत ।
ताः सर्वाः संविदाना ओषधयः प्रावत वाचं मे ॥

याः फलिनीर् या अफला अकोशा याश् च कोशिनीः ।
बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥

अवपतन्तीर् अवदन् दिव ओषधयस् परि ।
यं जीवम् अश्नवामहे न स रिष्याति पूरुषः ॥

दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
समुद्रान् नद्यो वेशन्तांस् ते नो मुञ्चन्त्व् अंहसः ॥

ब्रूमो राजानं वरुणं धातारम् उत पूषणम् ।