१०

युयोध्य् अस्मद् द्वेषांसि यानि कानि च चकृम ॥म्स्_२,७।१०॥

अपेत वीत वि च सर्पतातो ये ऽत्र स्थं पुराणा ये च नूतनाः ।
अदाद् इदं यमो ऽवसानं पृथिव्या अक्रन्न् इमं पितरो लोकम् अस्मै ॥

अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि सञ्ज्ञानम् असि कामधरणं मयि ते कामधरणं भूयात् ॥

अयं सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रियं वाजम् अत्यं न सप्तिं ससवान्त् संस्तूयसे जातवेदः ॥

अग्ने दिवो अर्णम् अछा जिगास्य् अछा देवं ऊचिषे धिष्ण्या ये ।
याः परस्ताद् रोचनाः सूर्यस्य याश् चावस्ताद् उपतिष्ठन्ता आपः ॥

अग्ने यत् ते दिवि वर्चः पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु ।
येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षः ॥

पुरीष्यासो अग्नयः प्रवणेन सजोषसः ।
जुषन्तां हव्यम् आहुतम् अनमीवा इषो महीः ॥

इडाम् अग्ने पुरुडंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥

अयं ते ॥

चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद चितः स्थ परिचितः स्थोर्ध्वश्रितः श्रयध्वम् ॥

समितं सङ्कल्पेथां सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।
इषम् ऊर्जम् अभि संवसानौ ॥

सं वां मनांसि सं व्रता सम् उ चित्तान्य् आकरम् ।
अग्ने पुरीष्याधिपा भव त्वं ना इषम् ऊर्जं यजमानाय धेहि ॥

त्वम् अग्ने पुरीष्यो रयिमान् पुष्टिमं असि ।
शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥

भवतं नः ॥

मातेव पुत्रं पृथिवी पुरीष्यम् अग्निं स्वे योना अभार् उखा ।