०९

अद्वेष्ये द्यावापृथिवी हुवे देवा धत्त रयिम् अस्मे सुवीरम् ॥म्स्_२,७।९॥

उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः ।
स नो भव शिवस् त्वं सुप्रतीको विभावसुः ॥

प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।
बृहद्भिर् भानुभिर् भासन् मा हिंसीस् तन्वा प्रजाः ॥

अक्रन्दद् अग्निः ॥

समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥

प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।
अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥

आपो देवीः प्रतिगृभ्णीत भस्मैतत् स्योने कृणुध्वं सुरभा उलोके ।
तस्मै नमन्तां जनयः सनीडा मातेव पुत्रं बिभृता स्व् एनत् ॥

अप्स्व् अग्ने सधिष् टव सौषधीर् अनुरुध्यसे ।
गर्भः सञ्जायसे पुनः ॥

गर्भो ऽस्य् ओषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥

प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।
सङ्गत्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥

पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।
शेषे मातुर् यथोपस्थे अन्तर् अस्यां शिवतमः ॥

पुनर् ऊर्जा सह रय्या ॥

बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
निन्दति त्वो अनु त्वो ववन्द वन्दारुं ते तन्वं वन्दे अग्ने ॥

स बोधि सूरिर् मघवा वसुदावा वसुपतिः ।