शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥म्स्_२,७।८॥
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयं परि जातवेदाः ।
तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जनते स्वाधीः ॥
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आबभूथ ॥
समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्ना ऊधन् ।
तृतीये त्वा रजसि तस्थितांसम् ऋतस्य योनौ महिषा अगृभ्णन् ॥
श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजा विभात्य् अग्र उषसाम् इधानः ॥
उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो निधायि ।
इयर्ति धूमम् अरुषो भरिभ्रद् उञ् शुक्रेण शोचिषा द्याम् इनक्षन् ॥
अक्रन्दद् अग्निः ॥
विश्वस्य जज्ञे भुवनस्य राजा रोदसी अपृणाज् जायमानः ।
वीडुं चिद् अद्रिम् अभिनत् परायन् जना यद् अग्निम् अयजन्त पञ्च ॥
नक्तोषासा ॥
यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने ।
प्र तं नय प्रतरं वस्यो अछाभि द्युम्नं देवहितं यविष्ठ्य ॥
आ तं भज सौश्रवसेष्व् अग्न उक्थौक्था आभज शस्यमाने ।
प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
त्वाम् अग्ने यजमाना अनु द्यून् दूतं कृण्वाना अयजन्त हव्यैः ।
त्वया सह द्रविणम् इछमाना व्रजं गोमन्तम् उशिजो विवव्रुः ॥
अस्ताव्य् अग्निर् नृणां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।