वसवस् त्वाछृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वद् उखे रुद्रास् त्वाछृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वद् उख आदित्यास् त्वाछृन्दन्तु जागतेन छन्दसाङ्गिरस्वद् उखे विश्वे त्वा देवा वैश्वानरा आछृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् उखे ॥म्स्_२,७।६॥
आकूतम् अग्निं प्रयुजं स्वाहा मनो मेधाम् अग्निं प्रयुजं स्वाहा चित्तं विज्ञातम् अग्निं प्रयुजं स्वाहा वाचो विधृतम् अग्निं प्रयुजं स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा ॥
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥
मा सु भित्था मा सु रिषो दृंहस्व वीरयस्व सु ।
अम्ब धृष्णु वीरयस्वाग्निश् चेदं करिष्यथः ॥
दृंहस्व देवि पृथिवि स्वस्तये आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य इदम् अस्तु हव्यम् अरिष्टा त्वम् उदिहि यज्ञे अस्मिन् ॥
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस् पुत्रो अद्भुतः ॥
परस्या अधि संवतो ऽवरं अभ्यातर ।
यत्राहम् अस्मि तं अव ॥
परमस्याः परावतो रोहिदश्व इहागहि ।
पुरीष्यः पुरुप्रियो अग्ने त्वं तरा मृधः ॥
यद् अग्ने यानि कानि चा ते दारूणि दध्मसि ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
रात्रींरात्रीम् अप्रयावं भरन्तो ऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥
नाभा पृथिव्याः समिधानो अग्निं रायस्पोषाय बृहते हवामहे ।
इरम्मदं बृहदुक्थं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥
याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत ।
ये स्तेना ये च तस्करास् तांस् ते अग्ने अपिदधाम्य् आस्ये ॥
ये जनेषु मलिम्लवः स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस् तांस् ते दधामि जम्भयोः ॥
दंष्ट्राभ्यां मलिम्लून् अग्ने जम्भाभ्यां तस्करं उत ।
हनुभ्यां स्तेनान् भगवस् तांस् त्वं खाद मुखादितम् ॥
यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।
निन्दाद् यो अस्मान् दिप्साच् च सर्वांस् तान् मृस्मृसा कुरु ॥
उद् एषां बाहून् अतिरम् उद् वर्चो अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रान् उन्नयामि स्वं अहम् ॥
संशितं मे ब्रह्म संशितं वीर्यं बलम् ।
संशितं क्षत्रं मे जिष्णु यस्याहम् अस्मि पुरोहितः ॥
ब्रह्म क्षत्रं सयुजा न व्यथेते ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।