०५

माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भा आ ॥म्स्_२,७।५॥

मखस्य शिरो ऽसि वसवस् त्वा कृण्वन्तु गायत्रेण् छन्दसाङ्गिरस्वद् उखे ध्रुवासि पृथिव्य् असि धारया मयि प्रजां रायश्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानाय रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वद् उखे ध्रुवास्य् अन्तरिक्षम् असि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानायादित्यास् त्वा कृण्वन्तु जागतेन छन्दसाग्ङ्गिरस्वद् उखे ध्रुवासि द्यौर् असि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानाय विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् उखे ध्रुवासि दिशो ऽसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानायादित्या रास्नास्य् अदितिष् टे बिलं गृभ्णातु ॥

कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।
तां पुत्रेभ्यः प्रायछद् अदितिः श्रपयान् इति ॥

वसवस् त्वा धूपयन्त्व् अङ्गिरस्वद् रुद्रास् त्वा धूपयन्त्व् अङ्गिरस्वद् आदित्यास् त्वा धूपयन्त्व् अङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् बृहस्पतिष् ट्वा धूपयत्व् अङ्गिरस्वद् अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवट देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखे धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वद् अभीन्द्धाम् उखे ग्नास् त्वा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वञ् श्रपयन्तूखे वरुत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखे जनयस् त्वाछिन्नपत्रा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखे ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥

देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।
सुबाहुर् उत शक्त्या ॥

उत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ।
अव्यथमाना पृथिव्य् आशा दिशा आपृण ॥

मित्रैतां त उखां परिददाम्य् अभित्त्यय् एषा मा भेदि ॥