०४

ऋतं सत्यम् ऋतं सत्यम् अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ॥म्स्_२,७।४॥

ओषधयः प्रतिगृभ्णीताग्निम् एतं शिवम् आयन्तम् अभ्य् अत्र युष्मान् ।
व्यस्यन् विश्वा अनिरा अमीवा निषीदन् नो अप दुर्मतिं जहि ॥

ओषधयः प्रतिमोदध्वम् एनं पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऋत्वियः प्रत्नं सधस्थम् आसदत् ॥

वि पाजसा पृथुना शोशुचानो बाधस्व रिपून् रक्षसो अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥

आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥

मित्रः संसृज्या पृथिवीं भूमिं च ज्योतिषा स्वः ।
सुजातं जातवेदसम् अयक्ष्माय त्वा संसृजामि प्रजाभ्यः ॥

रुद्राः संसृज्या पृथिवीं बृहज् ज्योतिः समीधिरे ।
तेषां भानुर् अजस्रा इञ् शुक्रो देवेषु रोचते ॥

संसृष्टां वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥

सिनीवाली सुकपर्दा सुकरीरा स्वोपशा ।
सा तुभ्यम् अदिते मह्य् ओखां ददातु हस्तयोः ॥

उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।