अयं ते ॥म्स्_२,७।३॥
अपो देवीर् उपसृजा मधुमतीर् अयक्ष्माय प्रजाभ्यः ।
तासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पलाः ॥
सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।
यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥
सुजातो ज्योतिषा शर्म वरूथम् आसदत् स्वः ।
वासो अग्ने विश्वरूपं संव्ययस्व विभावसो ॥
उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
दृशा च भासा बृहता सुशिक्मनाग्ने याहि सुशस्तिभिः ॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघाद्भिर् विह्वयामहे ॥
सजातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृता ओषधीषु ।
चित्रः शिशुष् परि तमांस्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥
स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् ।
पृथुर् भव सुषदस् त्वम् अग्नेः पुरीष्यवाहनः ॥
शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।
मा द्यावापृथिवीं हिंसीर् मान्तरिक्षं मा वनस्पतीन् ॥
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।
भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ॥
वृषाग्निं वृषणं भरन्न् अपां गर्भं समुद्रियम् ।
अग्ना आयाहि वीतये ॥