देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थे अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतं शिवं प्रजाभ्यो ऽहिंसन्तं पृथिव्याः सधस्थे अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥म्स्_२,७।२॥
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो मह आ च पुष्करे दिवो मात्रया वरिणा प्रथस्व ॥
शर्म च स्थो वर्म च स्थो अछिद्रे बहुले उभे ।
व्यचस्वती संवसेथां भर्तम् अग्निं पुरीष्यम् ॥
संवसेथां स्वर्विदा समीची उरसा त्मना ।
अग्निं भरिष्यन्ती अन्ता रोचमानम् अजस्रम् इत् ॥
पुरीष्यो ऽसि विश्वभरा अथर्वा त्वा प्रथमो निरमन्थद् अग्ने ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निरमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः ।
वृत्रहणं पुरन्दरम् ॥
तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनञ्जयं रणेरणे ।
सीद होतः स्व उलोके चिकित्वान्त् सादया यज्ञं सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवं असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
संसीदस्व महं असि शोचस्व देववीतमः ।
वि धूमम् अग्ने अरुषं मेध्य सृज प्रशस्त दर्शतम् ॥
जनिष्व हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु ।
दमेदमे सप्त रत्ना दधानो ऽग्निर् होता निषसाद यजीयान् ॥
अयम् इह ॥
इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम्महेमा मनीषया ।
भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥