आनुष्टुभेन छन्दसा ॥म्स्_२,७।१॥
प्रतूर्तं वाजिन्न् आद्रव वरिष्ठाम् अनु संवतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥
युञ्जाथां रासभं युवम् अस्मिन् यामे वृषण्वसू ।
अग्निं भरन्ता अस्मयुम् ॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाया इन्द्रम् ऊतये ॥
प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् रुद्रस्य गाणपत्यान् मयोभूर् एहि ॥
उर्व् अन्तरिक्षं वीहि ॥
स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥
अग्निं पुरीष्यम् अङ्गिरस्वद् आभराग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमो ऽग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥
अन्व् अग्निः ॥
आगत्य वाज्य् अध्वानं सर्वा मृधो विधूनुते ।
अग्निं सधस्थे महति चक्षुषा निचिकीषति ॥
आक्रम्य वाजिन् पृथिवीम् अग्निम् इछ रुचा त्वम् ।
भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम् ॥
द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मानतरिक्षं समुद्रो योनिः ।
विक्शाय चक्षुषा त्वम् अभितिष्ठ पृतन्यतः ॥
उत्क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।
वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥
उदक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकं सुकृतं पृथिव्याः ।
ततः खनेम सुप्रतीकम् अग्निं स्वो रुहाणा अधि नाक उत्तमे ॥
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नं रभसं दृशानम् ॥
आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषस्व ।
मर्यश्रीः स्पृहयद्वर्णो अग्निर् नाभिधृषे तन्वा जर्हृषाणः ॥
परि वाजपतिः ॥
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥