१३

सावित्रो ऽष्टाकपालः श्येतो दक्षिणा सारस्वतश् चरुर् धेनुर् दक्षिणा पौष्णश् चरुः श्यामो दक्षिणा बार्हस्पत्यश् चरुः शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दक्षिणा वारुणो यवमयो दशकपालो बभ्रुर् महानिरष्टो दक्षिणा त्वाष्ट्रो ऽष्टाकपालो ऽंसेपाञ् शुण्ठो ऽधिरूढाकर्णो वा दक्षिणाग्नेयो ऽष्टाकपालो हिरण्यम् अष्टापृडं दक्षिणा सौम्यश् चरुर् बभ्रुर् दक्षिणा वैष्णवस् त्रिकपालो वामनो दक्षिणाग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यश् चरुः शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दक्षिणा वैश्वदेवश् चरुः पिशङ्गो दक्षिणा मैत्रावरुण्य् आमिक्षा वशा दक्षिणाग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालो बार्हस्पत्यश् चरुर् अग्नये वैश्वानराय द्वादशकपालस् त्वाष्ट्रो ऽष्टाकपालो दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतस् चरुः पौष्णश् चरुर् मैत्रश् चरुर् वारुणश् चरुर् अदित्यै चरुः क्षेत्रस्य पतये चरुः सव्यो रथवाहनवाहो दक्षिणा मारुती पृश्निः पष्ठौही गर्भिण्य् आदित्याजा मलिहा गर्भिणी सवित्रे प्रसवित्रे सतीनानाम् अष्टाकपालो ऽश्विभ्यां पूष्ण एकादशकपालः सरस्वत्यै सत्यवाचे चरुर् दण्ड उपानहौ शुष्कदृतिः सा दक्षिणा ॥म्स्_२,६।१३॥
मलिहा : फ़्न् एमेन्देद्। एद्।: मल्हा। च्फ़्। म्स्।४।४।९:६०।२०।

युञ्जानः प्रथमं मनस् तत्वाय सविता धियः ।
अग्निं ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥

युक्तेन मनसा वयं देवस्य सवितुः सवे ।
स्वर्ग्याय शक्तये ॥

युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् ।
बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥
स्वर्यतो : फ़्न् त्स्।४।१।१।१।ब्: सुवर् यतो

युञ्जते मनः ॥

युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरिः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥

यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् अर्चतः ।
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥

देव सवितः ॥

इमं मे देव सवितर् यज्ञं प्रणय देवायुवम् ।
वसुविदं सत्राजितं धनजितं स्वर्विदम् ।
ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् ।
बृहद् गायत्रवर्तनि ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे नारिर् असि गायत्रेण छन्दसा पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आभर त्रैष्टुभेन छन्दसाभ्रिर् असि नारिर् असि त्वया वयम् अग्निं शकेम खनितुं सधस्था आ जागतेन छन्दसा ॥
आभर : फ़्न् एमेन्देद्। एद्।: आभरा

हस्त आधाय सविता बिभ्रद् अभ्रिं हिरण्ययीम् ।
अग्निं ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥