इन्द्रस्य वज्रो ऽसि वाजसनिस् त्वयायं वाजं सेन् मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि विष्णोः क्रमो ऽसि सपत्नहा मरुतां प्रसवे जयाप्तं मनः सम् इन्द्रियेणैष वज्रो वाजसातमस् तेन नौ पुत्रो वाजं सेत् ॥म्स्_२,६।११॥
इयद् अस्य् आयुर् अस्य् आयुर् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मे धेह्य् ऊर्ग् अस्य् ऊर्जं मयि धेहि मित्रो ऽसि वरुणो ऽसि सद् असि सम् अहं विश्वैर् देवैर् नमो मात्रे पृथिव्यै मा मां माता पृथिवी हिंसीत् ॥
प्रति त्यन् नाम राज्यम् अधायि स्वां तन्वं वरुणो ऽसुषोत् ।
शुचेर् मित्रस्य व्रत्या अभूमामन्महि महद् ऋतस्य नाम ॥
सर्वे व्राता वरुणस्याभूम नि मित्रयुर् अरतीन् अतारीत् ।
अशूशुभन्त यज्ञिया ऋतेन नि त्रितो जरिमाणं न आनट् ॥
स्योनासि सुषदा स्योनाम् आसीद सुषदाम् आसीद ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥
अग्नये स्वाहा सोमाय स्वाहेन्द्रस्यौजसे स्वाहा मरुतां बलाय स्वाहा ॥
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥
ब्रह्मा३ंस् त्वं ब्रह्मासि सवितासि सत्यसवो ब्रह्मा३ंस् त्वं ब्रह्मासि मित्रो ऽसि सुशेवो ब्रह्मासीन्द्रो ऽसि सत्यौजा ब्रह्मा३ंस् त्वं ब्रह्मासि वरुणो ऽसि विश्वौजाः ॥
एष वज्रस् तेन मे रध्य दिशो अभ्यभूद् अयम् ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
यस्मै कं जुहुमस् तन् नो अस्तु ॥
असा अमुष्य पुत्रो ऽमुष्यासौ पुत्रः ॥