०९

आरोहथो वरुण मित्र गर्तं ततश् चक्राथे अदितिं दितिं च ॥म्स्_२,६।९॥

समिधम् आतिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथन्तरं सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आतिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदशः स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणं प्राचीम् आतिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदशः स्तोमो वैरूपं साम विश्वे देवा देवता विड् द्रविणम् उदीचीम् आतिष्ठानुष्टुप् त्वा छन्दसाम् अवत्व् एकविंशः स्तोमो वैराजं साम मित्रावरुणौ देवता पुष्टं द्रविणम् ऊर्ध्वाम् आतिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिंशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता फलं द्रविणं सोमस्य त्विषिर् असि त्विषिमत् तवेव मे त्विषिर् भूयात् ॥

प्रत्यस्तं नमुचेः शिरो ऽवेष्टा दन्दशूकाः ।