रुद्र यत् ते गिरिपरं नाम तस्मिन् हुतम् असि यमेष्टम् असि स्वाहा सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धर्मं धारयन्तु ॥म्स्_२,६।८॥
क्षत्रस्य योनिर् असि क्षत्रस्योल्बम् असि क्षत्रस्य नाभिर् अस्य् आवित्तो अग्निर् गृहपतिर् आवित्ता इन्द्रो वृद्धश्रवा आवित्तौ मित्रावरुणौ धृतव्रतव् आवित्ते द्यावापृथिवी ऋतावृधव् आवित्तः पूषा विश्ववेदा आवित्ता देव्य् अदितिर् आवित्तो ऽयम् असा आमुष्यायणो ऽमुष्याः पुत्रो ऽमुष्यां विशि महते क्षत्राय महते जानराज्यायैष ते जनते राजा सोमो ऽस्माकं ब्राह्मणानां राजेन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्याच् छत्रुबाधनाः स्थ पात प्राञ्चं पात प्रत्यञ्चं पात तिर्यञ्चं पातान्वञ्चं पातोर्ध्वं दिग्भ्य एनं पात मित्रो ऽसि वरुणो ऽसि ॥
हिरण्यवर्णम् उषसो व्युष्टा अयःस्थूणम् उदितौ सूर्यस्य ।