०७

देवीर् आपो अपां नपाद् राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा देवीर् आपो अपां नपाद् राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त वृषोर्मिर् असि वृषसेनो ऽस्य् अपां पतिर् अस्य् अप्रहावरीः स्थ परिवाहिणीः स्थौजस्विनीः स्थ मान्दाः स्थ व्रजक्षितः स्थ सूर्यवर्चसः स्थ सूर्यत्वचसः स्थ मरुताम् ओजः स्थ वशाः स्थ शक्वरीः स्थ विश्वभृतः स्थ जनभृतो ऽपाम् ओषधीनां रसः श्रविष्ठाः स्थ राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥म्स्_२,६।७॥

देवीर् आपो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ॥

अपो देवीर् मधुमतीर् अगृभ्णाम् ऊर्जस्वती राजसूयाश् चितानाः ।
याभिर् मित्रावरुणा अभ्यषिञ्चंस् ताभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् ॥

शुक्रा वः शुक्रेण पुनामि चन्द्रा वश् चन्द्रेण पुनामि ॥

देवो वः सविता पुनात्व् अछिद्रेण पवित्रेण ।
वसोः सूर्यस्य रश्मिभिः ॥

स्वाहा राजसूयाः ॥

सधमादो द्युम्न्या ऊर्जा एका अनाधृष्टा अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थम् अपां शिशुर् मातृतमास्व् अन्तः ॥