०५

बार्हस्पत्यश् चरुर् ब्रह्मणो गृहे शितिपृष्ठो दक्षिणैन्द्र एकादशकपालो राज्ञो गृह ऋषभो दक्षिणादित्यश् चरुर् महिष्या गृहे धेनुर् दक्षिणा नैरृतश् चरुर् नखावपूतानां परिवृक्त्या गृहे श्येनी वण्डापस्फुरा दक्षिणाग्नेयो ऽष्टाकपालः सेनान्यो गृहे हिरण्यं दक्षिणाश्विनो द्विकपालः सङ्ग्रहीतुर् गृहे सवत्यौ दक्षिणा सावित्रो ऽष्टाकपालः क्षत्तुर् गृहे श्येतो दक्षिणा वारुणो यवमयो दशकपालः सूतस्य गृहे बभ्रुर् महानिरष्टो दक्षिणा मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृहे पृश्निः पष्ठौही दक्षिणा पौष्णश् चरुर् भागदुघस्य गृहे श्यामो दक्षिणा वैष्णवस् त्रिकपालस् तक्षरथकारयोर् गृहे सर्वायसानि दक्षिणा रौद्रो गावीधुकश् चरुर् अक्षावापस्य गृहे गोविकर्तस्य चासिर् वालापितस्थो दक्षिणा शबलो वा त्रिवत्सो ऽभिधानी वा केसरपाशा ॥म्स्_२,६।५॥

इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् इन्द्राय सुत्राम्णा एकादशकपालम् ऋषभो दक्षिणा स्वयंरुग्णाया अश्वत्थशाखायाः पात्रं भवत्य् अथ श्वेतां श्वेतवत्सां दुहन्ति तत् स्वयं मूर्छति स्वयं मथ्यते स्वयंविलीनम् आज्यं भवत्य् अथ मैत्राबार्हस्पत्यं हविर् निर्वपन्ति ये क्षोदिष्ठास् तण्डुलास् तं बार्हस्पत्यं चरुं शृतं कुर्वन्ति तत्र तत् पात्रम् अपिधायाज्यम् आसिच्य ये स्थविष्ठास् तण्डुलास् तान् आवपन्त्य् उभौ सह शृतौ कुर्वन्ति मैत्रेण पूर्वेण प्रचरन्त्य् अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्याग्नये गृहपतय आपतन्तानाम् अष्टाकपालं निर्वपेत् सोमाय वनस्पतये श्यामाकं चरुं सवित्रे प्रसवित्रे सतीनानाम् अष्टाकपालं बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय हायनानाम् एकादशकपालं मित्राय सत्यस्य पतये नाम्बानां चरुं वरुणाय धर्मस्य पतये यवमयं चरुं रुद्राय पशुपतये गावीधुकं चरुम् ॥