अनुमत्यै चरुर् राकायै चरुः सिनीवाल्यै चरुः कुह्वै चरुर् धात्रे द्वादशकपालः पष्ठौही दक्षिणाग्नावैष्णव एकादशकपाल ऐन्द्रावैष्णावश् चरुर् वैष्णवस् त्रिकपालो वामनो दक्षिणा सौमापौष्ण एकादशकपाल ऐन्द्रापौष्णश् चरुः पौष्णश् चरुः श्यामो दक्षिणाग्नये वैश्वानराय द्वादशकपालो वारुणो यवमयश् चरुर् हिरण्यं चाश्वश् च दक्षिणा ॥म्स्_२,६।४॥