ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा दक्षिणात्सदो यमनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा उत्तरात्सदो मित्रावरुणनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा उपरिषदो ऽवस्वद्वन्तः सोमनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेदम् अहं रक्षो ऽभिसमूहाम्य् अग्ने सन्दह रक्षः सन्दग्धं रक्षो ऽग्नये पुरःसदे स्वाहा यमाय दक्षिणात्सदे स्वाहा मरुद्भ्यः पश्चात्सद्भ्यः स्वाहा मित्रावरुणाभ्याम् उत्तरात्सद्भ्यां स्वाहा सोमायोपरिषदे ऽवस्वद्वते रक्षोघ्ने स्वाहा रथः पञ्चवाही दक्षिणा ॥म्स्_२,६।३॥