०२

ऐन्द्राग्नम् एकादशकपालं निर्वपेद् आग्नेन्द्रं वा वैश्वदेवश् चरुः सौम्यः श्यामाकश् चरुर् द्यावापृथिवीया एककपालो वत्सः प्रथमजो दक्षिणा सीरं द्वादशायोगं दक्षिणोष्टारो वानड्वान् ॥म्स्_२,६।२॥

आग्नेयो ऽष्टाकपालो वारुणो यवमयश् चरुर् रौद्रो गावीधुकश् चरुर् ऐन्द्रं दधि धेनुर् अनड्वाही दक्षिणापां न्ययनाद् अपामार्गान् आहरन्ति तान्त् सक्तून् कृत्वा दक्षिणा परेत्य स्वकृता इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण जुहोति ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् इन्द्रस्यौजसा रक्षोहासि स्वाहा हतं रक्षो ऽवधिष्म रक्षः ॥

वरो दक्षिणा ॥