०१

श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुर् वरो दक्षिणा श्वो भूत आग्नावैष्णव एकादशकपालो ऽनड्वान् वामनो दक्षिणा श्वो भूते ऽग्नीषोमीया एकादशकपालो हिरण्यं दक्षिणा श्वो भूत ऐन्द्राग्न एकादशकपालो ऽनड्वान् ऋषभो दक्षिणा श्वो भूत आग्नेयो ऽष्टाकपालो माहेन्द्रं दधि वासः क्षौमं दक्षिणा ॥म्स्_२,६।१॥