वायव्यम् अजम् आलभेतैन्द्रं वृष्णं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेद् यद् वायवे वायुर् एवैनं भूत्यै निनयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवति यद् ऐन्द्र इन्द्रियेणैवैनं वीर्येण समर्धयति वरुणगृहीतो वा एष यो ऽलं भूत्यै सन् न भवति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चत्य् एतान् एवाभिचरन्न् आलभेत यद् वायवे वायुर् एवास्मै वज्रं संश्यत्य् ऐन्द्रो वै वज्र इन्द्रियेण खलु वै वज्रः प्रह्रियते यद् ऐन्द्रो वज्रम् एवास्मै प्रहरति यद् वारुणो वरुणेनैवैनं ग्राहयित्वा स्तृणुते सौर्यं बलक्षं पेत्वम् आलभेत ब्रह्मवर्चसकामो ऽसौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मै ब्रह्मवर्चसं प्रयछति यद् बलक्षः समृद्धस् तेन यद् अलूनः समृद्धस् तेन यत् पीवा समृद्धस् तेन त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधात्य् आदित्यं बहुरूपम् आलभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् पराचीर् वा एतस्मै व्युछन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति यद् आदित्यो ऽमुम् एवास्मा उन्नयति बहुरूपो भवति बहूनि वै रश्मीनां रूपाणि रश्मीनाम् एवास्मै रूपाण्य् आप्त्वोन्नयत्य् अग्निर् वै सृष्टो न व्यरोचत सो ऽग्नये तेजस्विने ऽजं कृष्णग्रीवम् आलभत तेन तेजस्व्य् अभवत् सो ऽकामयत सर्वत्र विभवेयम् इति सो ऽग्नये विभूतिमते ऽजं कृष्णग्रीवम् आलभत तेन सर्वत्र व्यभवत् सो ऽकामयत सर्वत्रापिभागः स्याम् इति सो ऽग्नये भागिने ऽजं कृष्णग्रीवम् आलभत तेन सर्वत्रापिभागो ऽभवत् सो ऽकामयत दानकामा मे प्रजाः स्युर् इति सो ऽग्नये दात्रे ऽजं कृष्णग्रीवम् आलभत तेनास्मै दानकामाः प्रजा अभवन् यः कमयेत तेजस्वी स्यां सर्वत्र विभवेयं सर्वत्रापिभागः स्यां दानकामा मे प्रजाः स्युर् इति स एतान् अजान् कृष्णग्रीवान् आलभेत तेजस्वी भवति सर्वत्र विभवति सर्वत्रापिभागो भवति दानकामा अस्मै प्रजा भवन्ति प्राजापत्यं बहुरूपम् आलभेत पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति बहुरूपो भवति बहूनि वै पशूनां रूपाणि पशूनाम् एवासमि रूपाण्य् आप्त्वावरुन्द्धे यामं शुकहरिम् आलभेत शुण्ठं वा यः कामयेत यमलोक ऋध्नुयाम् इत्य् एतेन वै यमो ऽमुष्मिंल् लोक आर्ध्नोद् यमो ऽमुष्य लोकस्याधिपत्यम् आनशे तम् एव भागधेयेनोपासरत् स एनम् अमुष्य लोकस्याधिपत्यं गमयत्य् एकधा वा एतेन यमलोक ऋध्नोति परे वयसि यष्टव्यं ताजग् घि प्रमीयते शुण्ठो वा भवति शुकहरिर् वैष ह्य् एतस्य देवतया पशूनां समृद्धः ॥म्स्_२,५।११॥
अनुमत्या अष्टाकपालं निर्वपन्ति ये प्रत्यञ्चः शम्याम् अतिशीयन्ते तन् नैरृतम् एककपालम् उभौ सह शृतौ कुर्वन्ति नैरृतेन पूर्वेण प्रचरन्ति दक्षिणा परेत्य स्वकृता इरिण एकोल्मुकं निधाय विस्रंसिकायाः काण्डाभ्यां जुहोति ॥
जुषाणा निरृतिर् वेतु स्वाहा ॥
वासः कृष्णं भिन्नान्तं दक्षिणा पुनर् एत्यानुमत्या अष्टाकपालेन प्रचरन्ति धेनुर् दक्षिणाथ य उदञ्चः शम्याम् अतिशीयन्ते तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयात् ॥
इदम् अहम् अमुष्यामुष्यायणस्य क्षेत्रियम् अवयजे ॥
तत् पुनर् अपिदधाति ॥
इदम् अहम् अमुष्यामुष्यायणस्य क्षेत्रियम् अपिदधामि ॥