यः प्रथम एकाष्टकायां जायेत यस् तम् आलप्स्यमानः स्यात् स आग्नेयम् अष्टाकपालं निर्वपेद् अग्निर् वै पशूनां योनिः स्वाद् एवैनान् योनेर् निष्क्रीणात्य् आ मेध्याद् भवितोर् अग्नये वैश्वानराय द्वादशकपालं मासिमासि निर्वपेत् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराद् एवैनं निष्क्रीणाति स यदा मेधं गछेद् अथेन्द्रायाभिमातिघ्न आलभेताभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहते ऽश्वो ऽव्युप्तवहो दक्षिणैष वै व्यावृत्तः पाप्मना पाप्मनैवैनं व्यावर्तयत्य् अथ यो ऽपरस्याम् एकाष्टकायां जायेत तम् एवम् एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेताभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहत्य वृत्रतूर् एवाभूत् स्वाराज्यम् एव गछति वृत्रतूर् इति ह्य् एतम् आहुर् यः स्वाराज्यं गछति शतम् अव्युप्तवहा दक्षिणैते वै व्यावृत्ताः पाप्मना पाप्मनैवैनं व्यावर्तयति शतं भवन्ति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति देवाश् च वा असुराश् चास्पर्धन्त ते ऽब्रुवन् ब्रह्मणि नो ऽस्मिन् विजयेथाम् इत्य् अरुणस् तूपरश् चैत्रेयो देवानाम् आसीञ् श्येतो ऽयःशृङ्गः श्यैनेयो ऽसुराणां ते ऽसुरा उत्क्रोदिनो ऽचरन्न् अराडो ऽस्माकं तूपरो ऽमीषाम् इति तौ वै समलभेतां तस्य देवाः क्षुरपवि शिरो ऽकुर्वंस् तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजद् यासुरी वाग् अवदत् सेमां प्राविशद् योदजयत् सा वनस्पतींस् तस्माद् ब्राह्मणो मृन्मयेन न पिबेद् असुर्या वाचात्मानं नेत् संसृजा इति तद् य एवं विद्वान् अमृत्पात्रपो भवत्य् उज्जितम् एव वाच उपैति तं ब्राह्मणस्पत्यम् आलभेताभिचरन् ब्रह्म वै ब्रह्मणस्पतिर् ब्राह्मणस्पत्यो ब्राह्मणो देवतया यावद् एव ब्रह्म तेनैनं सर्वेणाभिचरति तेजसैनं प्रछिनत्ति स्तृणुत एवारुणस् तूपरो भवत्य् एवम् इव हि तस्य रूपम् आसीत् समृद्ध्यै देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त ते रात्रीं प्राविशंस् तान् अश्विना अनुप्राविशतां तौ तमः पर्यगृह्णात् ता एतम् आश्विनम् अञ्जिम् आलभेतां तेन तमो ऽपाघ्नाताम् असा एना आदित्यः पुरस्ताज् ज्योतिषा प्रत्यागछत् स आभ्यां तमो ऽध्यपाहन् यः पाप्मना तमसा गृहीतो मन्येत स एतम् आश्विनम् अञ्जिम् आलभेत येनैवाश्विनौ तमो ऽपाघ्नातां तेन पाप्मानम् अपहते ऽसा एनम् आदित्यः पुरस्ताज् ज्योतिषा प्रत्यागछति सो ऽस्मात् तमो ऽध्यपहन्ति ॥म्स्_२,५।९॥
श्यैनेयो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
असौ वा आदित्यस् तेजोभिर् व्यार्ध्यत तत इदं सर्वं तमो ऽभवत् स प्रजापतिर् एतान् दश ऋषभान् अपश्यद् अथो आहुर् इन्द्रो ऽपश्यद् इति तान् ऐन्द्रान् आलभत तैर् अस्मिन्न् इन्द्रियाणि वीर्याण्य् आप्त्वादधाद् यल् ललामा आलभ्यन्त मुखतो ऽस्मिंस् तैस् तेजो ऽदधाद् यञ् शितिककुद उपरिष्टात् तैर् यञ् श्वेतानूकाशाः पश्चात् तैस् ततो वा असा आदित्यः सर्वतस् तेजस्व्य् अभवद् यस् तेजस्कामः स्यात् स एतान् ऐन्द्रान् ऋषभान् आलभेत यल् ललामा आलभ्यन्ते मुखतो ऽस्मिंस् तैस् तेजो दधाति यञ् शितिककुद उपरिष्टात् तैर् यञ् श्वेतानूकाशाः पश्चात् तैः सर्वत एवैनं तेजस्विनं करोत्य् अमुष्यैनम् आदित्यस्य मात्रां गमयति परजापत्यं दशमं द्वादशे मासा आलभेत द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे नवालभ्यन्ते नव वै प्राणाः प्राणाः खलु वै पुरुषे वीर्यं प्राणान् अस्मिन् वीर्यं दधाति दशालभ्यन्ते दशाक्षरा विराड् विराड् एतान्य् एवेन्द्रियाणि वीर्याण्य् आत्मन् धित्वेयं विराड् अस्याम् एव प्रतितिष्ठति ॥
नमो महिम्ने चक्षुषे मरुतां पितस् तद् अहं गृणे ते ।
हुतो याहि पथिभिर् देवयानैर् ओषधीषु प्रतितिष्ठा शरीरैः ॥
देवानाम् एष उपनाह आसीद् अपां पतिर् वृषभ ओषधीनाम् ।
सोमस्य द्रप्सम् अवृणीत पूषा बृहन्न् अद्रिर् अभवद् यत् तद् आसीत् ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।
समानं योनिम् अनु सञ्चरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
पिता वत्सानां पतिर् अघ्न्यानाम् उतायं पिता महतां गर्गराणाम् ।
वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतम् अस्य योनिः ॥
त्वां गावो ऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।