इन्द्राय मन्युमते मनस्वते ललामम् आलभेत सङ्ग्रामे मन्युना वै वीर्यं क्रियत इन्द्रियेण जयति वीर्यं चैवैष्व् इन्द्रियं च जित्यै दधाति ललामो भवति पुरस्ताद् ध्य् अयं मन्युर् अथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यतीन्द्रायाभिमातिघ्न ऋषभम् आलभेत भ्रातृव्यवान् अभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहते स इन्द्राय वृत्रतुरा आलभेताभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहत्य वृत्रतूर् एवाभूत् स्वाराज्यम् एव गछति वृत्रतूर् इति ह्य् एतम् आहुर् यः स्वाराज्यं गछत्य् ऐन्द्रामारुतं पृश्निसक्थम् आलभेत राजन्यं ग्रामकामं याजयेद् ऐन्द्रो वै राजन्यो देवतया मारुती विड् इन्द्रियेणैवास्मै विशम् उपयुनक्ति पृश्निसक्थो भवति पश्चाद् एवास्मै विशम् उपदधात्य् अनुकाम् अस्मै विशम् अविवादिनीं करोतीन्द्राय वज्रिण ऋषभम् आलभेत राजन्यं भूतिकामं याजयेद् यदा वै राजन्यो वज्री भवत्य् अथ भूतिं गछति यद् वजिणे वज्रम् एवास्मा आधात् तेन विजितिं भूतिं गछति स एनं भूत्यै श्रेम्ण इन्द्धे यद् वज्रिणा इति तद् अस्याभिचरणीयं यं द्विष्यात् तं तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एव सौम्यं बभ्रुम् ऋषभं पिङ्गलम् आलभेत यो ऽलं राज्याय सन् राज्यं न प्राप्नुयात् सोमो वै राजैतस्य देवता सोमो हि राजा स्वाम् एव देवतां राज्यायोपासरत् स्वैनं देवता राज्यं गमयति बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै ॥म्स्_२,५।८॥