छन्दांसि वै यज्ञाय नातिष्ठन्त स वषट्कारो ऽभिहृत्य गायत्र्याः शिरो ऽछिनत् तस्माञ् शीर्ष्णश् छिन्नाद् यो रसो ऽक्षरत् ता वशा अभवंस् तद् वशानां वशात्वम् अथो आहुर् वशं वै ता अक्षरंस् ता वशा अभवन् तद् वशानां वशात्वम् इत्य् अथो आहुर् वसा वै सासीत् तद् वसा वा एता इति ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिर् उपागृह्णात् सा रोहिणी बार्हस्पत्या ततो यो ऽत्यक्षरत् तं मित्रावरुणौ सा द्विरूपा मैत्रावरुणी ततो यो ऽत्यक्षरत् तं विश्वे देवाः सा बहुरूपा वैश्वदेवी ततो यो ऽत्यक्षरत् तम् अग्निश् च मरुतश् च सा पृश्निर् आग्निमारुत्य् अथो आहुः कृष्णशबलीत्य् अथ या विप्रुषा आसंस् तानीमान्य् अन्यानि रूपाणि ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिर् अभिहायाभ्यगृह्णात् स उक्षाभवत् तद् उक्ष्ण उक्षत्वम् अथो आहुर् यद् देवता अनुव्यौक्षत स उक्षाभवत् तद् उक्ष्ण उक्षत्वम् इति तं ब्राह्मणस्पत्यम् आलभेत ब्राह्मणं भूतिकामं याजयेद् ब्रह्म वै ब्रह्मणस्पतिर् ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यम् आप्त्वावरुन्द्धे भवत्य् एव रोहिणीं बार्हस्पत्याम् आलभेत ब्रह्मवर्चसकामो ब्रह्म वै बृहस्पतिर् बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति रोहिणी भवति ब्रह्मणो रूपं समृद्ध्यै मैत्रावरुणीं द्विरूपाम् आलभेत पशुकामो ऽहोरात्रे वै मित्रावरुणव् अहोरात्रे अनु पशवः प्रजायन्ते ता एव भागधेयेनोपासरत् ता अस्मै पशून् प्रजनयतश् छन्दसां वा एष रसश् छन्दसाम् एवास्मै रसेन पशून् धत्तो द्विरूपा भवति समृद्ध्यै वैश्वदेवीं बहुरूपाम् आलभेत यस्मै कामाय कामयेत सर्वा वा एता देवताः सर्वा वा एतद् देवताः कामाय भागधेयेनोपासरत् ता अस्मै कामं समर्धयन्ति यत्कामो भवति छन्दसां वा एष रसश् छन्दसाम् एवास्मै रसेन दधति बहुरूपा भवति समृद्ध्यय् आग्निमारुतीं पृश्निम् आलभेत वृष्टिकामो ऽग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्त्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति छन्दसां वा एष रसो रसो वृष्टिश् छन्दसाम् एवास्मै रसेन रसं वृष्टिं निनयन्ति पृश्निर् भवति पृश्निमातरो हि मरुतो भौमीं कृष्णशबलीम् आलभेतान्नकाम इयं वा अन्नस्य प्रदात्रिका ताम् एव भागधेयेनोपासरत् सास्मा अन्नाद्यं प्रयछति न चर्माप्य् आहरेयुर् अनन्नं वै चर्मानन्नं कृष्णम् अनन्नेनैवानन्नम् अपहत्यान्नाद्यम् आत्मन् धत्ते यद् वै तञ् शीर्ष्णश् छिन्नात् तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर् वशाभवत् तद् एषा वशान्नम् एवेतरास् तां ब्राह्मणस्पत्याम् आलभेताभिचरन् ब्रह्म वै ब्रह्मणस्पतिर् ब्राह्मणस्पत्यो ब्राह्मणो देवतया यावद् एव ब्रह्म तेनैनं सर्वेणाभिचरति तेजसैनं प्रछिनत्ति स्तृणुत एव बभ्रुर् भवति ब्रह्मणो रूपं समृद्ध्यै सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो ऽसौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मै ब्रह्मवर्चसं प्रयछति श्वेता भवति ब्रह्मणो रूपं समृद्ध्यै मैत्रावरुणीं कृष्णकर्णीम् आलभेत वृष्टिकामो ऽहोरात्रे वै मित्रावरुणव् अहोरात्रे अनुवर्षत्य् एतद् वा अह्नो रूपं यञ् शुक्लं यत् कृष्णं तद् रात्रेर् द्विरूपा भवति समृद्ध्यै ॥म्स्_२,५।७॥