०६

इत्य् एताभ्य एवैनं देवताभ्यो निर्याच्य मृत्युर् वै यमो मृत्युनैवैनं ग्राहयत्य् अग्नये वैश्वानराय कृष्णं पेत्वम् आलभेत समान्तम् अभिध्रोक्ष्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराय समम्यते संवत्सरम् एवाप्त्वावरुणं कामम् अभिद्रुह्यत्य् आश्विनं कृष्णललामम् आलभेतानुजावरं याजयेद् अश्विनौ वै देवानाम् आनुजावरव् अश्विना एतस्य देवते य आनुजावरस् ता एव भागधेयेनोपासरत् ता एनम् अग्रं परिणयतः कृष्णो भवति पाप्मानम् एवापहते ललामो भवति मुखतो ऽस्मिंस् तेजो दधात्य् आश्विनं कृष्णललामम् आलभेतामयाविनं याजयेद् अश्विनौ वै देवानां भिषजव् अश्विना एतस्य देवते य आमयावी ता एव भागधेयेनोपासरत् ता एनं भिषज्यतः कृष्णो भवति पाप्मानम् एवापहते ललामो भवति मुखतो ऽस्मिंस् तेजो दधाति ॥म्स्_२,५।६॥