सावित्रं पुनरुत्सृष्टम् आलभेत यः पुरा पुण्यः सन् पश्चा पापत्वं गछेत् सविता वै श्रियः प्रसविता तम् एव भागधेयेनोपासरत् स एनं श्रियै प्रसुवति पापो वा एष पुरा सन् पश्चा श्रियम् अश्नुते यः पुरानड्वान्त् सन् पश्चोक्षत्वं गछति यथैष श्रियम् अश्नुत एवम् एवैनं श्रियं गमयत्य् ओषधीभ्यो वेहतम् आलभेत प्रजाकाम ओषधीनां वा एषा प्रियैता वा एतां सूतोः परिबाधन्त ओषधयः खलु वा एतस्य प्रजाम् अपगूहन्ति यो ऽलं प्रजायै सन् प्रजां न विन्दते ता एव भागधेयेनोपासरत् ता अस्मै प्रजां पुनर् ददत्य् आपो वा ओषधय आपो ह त्व् एवासत् खनन्ति ता अस्मै प्रजां खनन्ति द्यावापृथिवीये धेनू सम्मातरा आलभेतान्नकामो यद् ध्य् असौ वर्षति तद् अस्यां प्रतितिष्ठति द्यावापृथिवी वा अन्नस्येशाते ते एव भागधेयेनोपासरत् ते अस्मा अन्नाद्यं प्रयछतः स वत्सं वायवा आलभेत वायुर् वा अनयोर् वत्सो वायुर् इमे प्रदापयति प्रत्ते ह वा इमे दुहे य एवं वेदैन्द्रीं सूतवशाम् आलभेत राजन्यं भूतिकामं याजयेद् एतस्या वा अधीन्द्रो ऽजायत स जायमान एतं योनिं निरवर्तयत् सा सूतवशाभवद् अथो आहुर् एतद् एव सकृद् इन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशंसत सा सूतवशाभवद् इतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवत्य् ऐन्द्री भवतीन्द्रियम् अस्मिन् दधात्य् अथ यस् तं विन्देद् यं सूत्वा सूतवशा भवति तम् ऐन्द्रम् आलभेत तेजस्कामस् तद् एवेन्द्रियं वीर्यं तेज आप्नोति सारस्वतीं धेनुष्टरीम् आलभेत यः क्षेत्रे पशुषु वा विवदेत वाग् वै सरस्वती वाचैवैषां वाचं वृङ्क्ते धेनुर् वा एषा सती न दुहे तर्यम् एवैषां वाचं करोति द्यावापृथिवीयां धेनुं पर्यारिणीम् आलभेत यो राजन्यो ऽभ्यर्धो विशश् चरेद् द्यावापृथिवीभ्यां हि वा एष निर्भक्तो ऽथैषो ऽभ्यर्धो विशश् चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः पर्यारिणी भवति पर्यारीव ह्य् एतद् राष्ट्रं यद् अभ्यर्धो विशश् चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य स श्वो भूते वत्सं वायवा आलभेत वायुर् वा अनयोर् वत्सो वायुर् इमौ क्षयौ विशं च प्रदापयति प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद ॥म्स्_२,५।४॥