देवाश् च वा असुराश् चास्पर्धन्त ते वै समावद् एव यज्ञे कुर्वाणा आयन् यद् एव देवा अकुर्वत तद् असुरा अकुर्वत ते न व्यावृतम् अगछंस् ते देवा एतं वामनं पशुम् अपश्यंस् तं वैष्णवम् आलभन्त ततो विष्णुर् इमांल् लोकान् उदजयत् ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त ततो देवा अभवन् परासुरा यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स एतं वामनं वैष्णवम् आलभेतातो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते विषम इवालभेत विषमान् इव हीमांल् लोकान् देवा उदजयन् निमान् एव लोकान् उज्जयतीन्द्रो वै वृत्रम् अहन् स प्राङ् अपद्यत स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् तस्माद् विष्वञ्चः पशवो व्युदायन् मूर्धतो वैदेहीर् उदायंस् तस्मात् तासां पुरो जन्म पुर ओकस् तासां जघनत ऋषभो वैदेहो ऽनूदैत् तम् अचायद् अयं वाव मास्माद् अंहसो मुञ्चेद् इति तम् ऐन्द्रम् आलभेताग्नेयं तु पूर्वम् अजम् आलभत स वा अग्निनैव वृत्रस्य भोगान् अपिदह्याथैन्द्रेणेन्द्रियं वीर्यम् आत्मन्न् अधत्त यः पाप्मना तमसा गृहीतो मन्येत स एतम् ऐन्द्रम् ऋषभम् आलभेताग्नेयं तु पूर्वम् अजम् आलभेताग्निनैव पाप्मनो भोगान् अपिदह्याथैन्द्रेणेन्द्रियं वीर्यम् आत्मन् धत्त इन्द्रो वै वलम् अपावृणोत् ततः सहस्रम् उदैत् तस्य सहस्रस्याग्रतः कुभ्र उदैत् तस्माद् एतं साहस्री लक्ष्मीर् इत्य् आहुर् यश् च वेद यश् च नाथो आहुर् इमं वा एष लोकं पश्यन्न् अभ्युदैत् स समैषत् स एष समीषितः कुभ्र इति तम् ऐन्द्रम् आलभेत पशुकाम ऐन्द्रा वै पशव इन्द्रः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति स यदा सहस्रं पशून् गछेद् अथैतं वामनं वैष्णवम् आलभेतैतस्मिन् वै तत् सहस्रं प्रत्यतिष्ठत् स तिर्यङ् व्यैषत् तस्माद् एष तिर्यङ्ङ् इव वीषित एतेन वै स तत् सहस्रं पर्यगृह्णात् तत् सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय देवाश् च वै पितरश् चास्मिंल् लोक आसंस् तद् यत् किञ्च देवानां स्वम् आसीत् तद् यमो ऽयुवत ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च ता आलभत वैष्णववारुणीं तु पूर्वां वशाम् आलभत तान् वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदताथैन्द्रं देवेष्व् आलभत तेनैष्व् इन्द्रियाणि वीर्याण्य् आप्त्वादधाद् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च वैष्णववारुणीं तु पूर्वां वशाम् आलभेत वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते ऽथैन्द्रेणेन्द्रियं वीर्यम् आत्मन् धत्ते ॥म्स्_२,५।३॥