स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तस्य देवास् तमो ऽपाघ्नन् यत् प्रथमं तमो ऽपाघ्नन्त् साविः कृष्णाभवद् यद् द्वितीयं सा लोहिनी यत् तृतीयं सा बलक्षी यद् अध्यस्ताद् अपाकृन्तत् साविर् वशाभवत् ते ऽब्रुवन् देवपशुम् इमं कामायालभामहा इत्य् अथ वा इयं तर्ह्य् ऋक्षासीद् अलोमिका ते ऽब्रुवंस् तस्मै कामायालभामहै यथास्याम् ओषधयश् च वनस्पतयश् च जायन्ता इति तां वै तस्मै कामायालभन्त ततो ऽस्याम् ओषधयश् च वनस्पतयश् चाजायन्त यः प्रजाकामो वा पशुकामो वा स्यात् स एताम् अविं वशाम् आलभेत प्र प्रजया च पशुभिश् च जायते ऽथो आहुर् यः प्रथमस् तमस्य् अपहते सूर्यस्य रश्मिर् यूपस्य चषाले ऽवातनोत् साविर् वशाभवद् इति तद् उभयेनैव देवपशुर् आलभ्यते यद्य् अस्यास् तज् जन्म यदि वेतरं तत् कामायकामायैवाविर् वशालभ्यते आग्नेयम् अजम् आलभेत वारुणं पेत्वं भूतिकामं याजयेद् आग्नेयानि वै पुरुषस्यास्थानि वारुणं मांसम् आग्नेयेनैवास्याग्नेयं निष्क्रीणाति वारुणेन वारुणं भवत्य् एव सारस्वतीं मेषीम् आलभेत यो वाचो गृहीत वाग् वै सरस्वती वाचैवास्य वाचं भिषज्यत्य् अपन्नदती भवति सर्वत्वायानधिस्कन्ना समृद्ध्यै श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीं वसन्ताग्नेयीं प्रावृषि बार्हस्पत्यां शिशिरे सौरीं यद् आग्नेयी तेजस् तयावरुन्न्धे यद् बार्हस्पत्या ब्रह्मवर्चसं तया यत् सौरी रुचं तया त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति संवत्सरं पर्यालभ्यन्ते संवत्सरेण वा अनाप्तम् आप्यते संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति श्वेता भवति ब्रह्मणो रूपं समृद्ध्यै वायव्याम् अजाम् आलभेत सारस्वतीं मेषीम् अदित्या अजाम् अभिशस्यमानं याजयेद् वायुर् वा एतस्याश्लीलं गन्धं जनता अनुविहरति यम् अभिशंसन्त्य् एष हीदं सर्वम् उपगछति यद् वायवे वायुर् एवास्य तं गन्धं सुरभिम् अकः सो ऽस्य सुरभिर् गन्धो जनता अनुवितिष्ठते वाचा वा एतम् अभिशंसन्ति यम् अभिशंसन्ति वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचं शमयत्य् अप्रतिष्ठितो वा एष यम् अभिशंसन्तीयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यास्याम् एव प्रतितिष्ठतीन्द्रियेण वा एष वीर्येण व्यृध्यते यम् अभिशंसन्तीन्द्रियं वीर्यं गर्भो यद् गर्भिणीर् भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयन्ति ॥म्स्_२,५।२॥
ऽवातनोत् : फ़्न् एमेन्देद्। एद्।: वातनोत्