०१

सौम्यं बभ्रुं लोमशं पिङ्गलम् आलभेत पशुकामः सौमीर् वा ओषधय ओषधयः पशवो यत् सौम्यः प्रत्यक्षम् एवास्मै पशुम् आलभते लोमशो भवत्य् एतद् वै पुष्ट्या रूपं पुष्टिम् एवावरुन्द्धे बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै यस् त्रैतानाम् उत्तमो जायेत तं सौमापौष्णम् आलभेत पशुकामः सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति स्तनं वा एतेषाम् द्वा अभिजायेते ऊर्जं तृतीय ऊर्ग् वै पशव ऊर्जैवास्मा ऊर्जं पशून् आप्त्वावरुन्द्धे त्रिर् वा एषा संवत्सरस्यान्यान् पशून् परिविजायत एतद् वै पुष्ट्या रूपं पुष्टिम् एवावरुन्द्धे भागिनीर् वा अन्याः प्रजा अभागा अन्या यद् औदुम्बरो यूपो भवत्य् उभयीर् एवैना भागिनीः करोति मासिमासि वा एषो ऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यत एतद् वै पुष्ट्या रूपं पुष्टिम् एवावरुन्द्धे प्राजापत्यं तूपरम् आलभेत पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति योनिर् वै प्रजापतिर् योनेर् एव प्रजायते सर्वेषां वा एष पशूनां रूपाणि प्रति पुरुषस्येव श्मश्रूण्य् अश्वस्येव शिरो गर्दभस्येव कर्णौ शुन इव लोमानि गोर् इव पूर्वौ पादव् अवेर् इवापरव् अजः खलु वै सर्वाण्य् एव पशूनां रूपाण्य् आप्त्वावरुन्द्धे सर्वाण्य् एनं पशूनां रूपाण्य् उपतिष्ठन्ते हिरण्यगर्भवत्याघारो याः प्रजापतेः सामिधेनीस् ताः सामिधेनीर् याः प्रजापतेर् आप्रियस् ता आप्रियो हिरण्यं देयं सशुक्रत्वाय तार्प्यं देयं सयोनित्वायाधीवासो देयो यज्ञस्य तेन रूपाण्य् आप्त्वावरुन्द्ध एतेन वा उपकेरू रराध ऋध्नोति य एतेन यजते द्वादशधा ह त्वै स प्रतिशित्रं परिजहार तत्र द्वादशद्वादश वरान् ददौ यद् द्वादश दीयन्ते तस्यैषा प्रतिमा श्वेतं वायवा आलभेत भूतिकामं याजयेद् वायुर् वै देवानाम् ओजिष्ठः क्षेपिष्ठः स एनं भूत्यै निनयति तद् आहुर् अधृता देवतेश्वरा निर्मृज ईश्वरैनम् आर्तिं निनेतोर् इति तद् अति सैवैनं भूत्यै निनयति श्वेतं वायवे नियुत्वता आलभेत ग्रामकामं याजयेद् वायुर् वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते यद् वायवे वायुर् एवास्मै नस्योतां विशं निनयति नियुत्वती याज्यानुवाक्ये भवतो ग्रामम् अस्मिन् दाधार श्वेतो भवति ब्रह्मणो रूपं समृद्ध्यै श्वेतं वायवे नियुत्वता आलभेतामयाविनं याजयेत् प्राणो वै वायुः प्राणो हि वा एतस्यापक्रान्तो ऽथैतस्यामयति यद् वायवे वायुर् एवास्मै प्राणं निनयति नियुत्वती याज्यानुवाक्ये भवतः प्राणम् अस्मिन् दाधार श्वेतो भवति ब्रह्मणो रूपं समृद्ध्यै श्वेतं वायवे नियुत्वता आलभेत पशुकामं याजयेत् प्राणो वै वायुः प्राणं वा एतत् पशवः प्रतिधावन्ति यद् वर्षेषु वातं प्रतिजिघ्रति यद् वायवे वायुर् एवास्मै पशून् निनयति नियुत्वती याज्यानुवाक्ये भवतः पशून् अस्मिन् दाधार श्वेतो भवति ब्रह्मणो रूपं समृद्ध्यै ॥म्स्_२,५।१॥
वै : फ़्न् एमेन्देद्। एद्।: खलु। ब्: खलु वै। म्३: खलु वा