०८

वृष्टिर् वै देवेभ्यो ऽन्नाद्यम् अपाक्रामत् तत इदं सर्वम् अशुष्यत् ते देवाः प्रजापतिम् एवोपाधावंस् तान् वा एतया प्रजापतिर् अयाजयत् कारीर्या तेभ्यो वृष्टिम् अन्नाद्यम् अवारुन्द्ध यत्र पर्जन्यो न वर्षेत् तद् एतया ज्येष्ठं वा पुरोहितं वा याजयेद् वृष्टिर् वा एतेभ्यो ऽन्नाद्यम् अपक्रामति यत्र पर्जन्यो न वर्षति यत् कारीर्या याजयन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यय् अष्टौ वातहोमा अष्टौ दिशा इति दिग्भ्य एवैतैर् वृष्टिम् आवर्तयन्ति मान्दा वशा ज्योतिष्मतीर् अमस्वरीर् इत्य् एतानि वा अपां नामधेयानि यथा वा इदं नामग्राहम् असा असा इति ह्वयत्य् एवं वा एतद् अपो नामधेयैश् च्यावयति वृष्णो अश्वस्य सन्दानम् असीति वृषा ह्य् अश्वो वृषा पर्जन्यः समृद्ध्यै वृष्ट्यै त्वोपनह्यामीति वृष्ट्यै ह्य् उपनह्यति देवा वसव्या अग्ने सोम सूर्येति देवताभिर् एवान्वहं वृष्टिम् अछैति यदि न वर्षेत् तत्रैव वसेयुर् अहोरात्राभ्याम् एव वृष्टिं च्यावयन्ति करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै मधूद्युतानि भवन्त्य् अपां वा एष ओषधीनां रसो ऽपाम् एवैना ओषधीनां रसेनाछैति रसेनैनाश् च्यावयत्य् अग्नये धामछदे ऽष्टाकपालं निर्वपेन् मारुतं सप्तकपालं सौर्यम् एककपालं वृष्टिकामं याजयेद् अग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्ति तां सूर्यो रश्मिभिर् वर्षत्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति सृजा वृष्टिं दिव आद्भिः समुद्रं पृणेतीमाश् चैवामूश् च समस्राड् आभिर् अमूर् अछैति ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास् त इदं क्षेत्रम् आविशत त इदं क्षेरम् अनुविविशतेतीमान् एव लोकान् वृष्ट्यै सम्मृशति ॥म्स्_२,४।८॥
अवारुन्द्ध : फ़्न् एमेन्देद्। एद्।: अवरुन्द्धे। च्फ़्। ३।३।१:३२।१६
त्वोपनह्यामीति : फ़्न् एमेन्देद्। एद्।: समृद्ध्यै त्वोपनह्यामीति। च्फ़्। २।४।७:४४।९