आग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्रम् एकादशकपालं बार्हस्पत्यं चरुं भूतिकामं याजयेद् इन्द्रो वै शिथिर इवामन्यत सो ऽग्निं च बृहस्पतिं चाब्रवीद् याजयतं मेति तं वा एतयाग्निश् च बृहस्पतिश् चायाजयतां तस्मिंस् तेजो ऽग्निर् अदधाद् इन्द्रियम् इन्द्रो ब्रह्म बृहस्पतिस् तता इन्द्रो ऽभवद् यो भूतिकामः स्यात् तम् एतया याजयेत् तेज एवास्मिन्न् अग्निर् दधातीन्द्रियम् इन्द्रो ब्रह्म बृहस्पतिर् भवत्य् एव यद् अस्मिंश् त्रीणि वीर्याण्य् अधत्तां तस्मात् त्रिधातुर् ऐन्द्र इतरा अभिसंश्लेषयन्ति सेन्द्रियत्वाय ॥म्स्_२,४।६॥
पुरोवात जिन्व रावट् स्वाहा वातवान् वर्षन् भीम रावट् स्वाहा स्तनयन् वर्षन्न् उग्र रावाट् स्वाहातिरात्रं ववर्ष्वान् पूर्त रावट् स्वाहा बहु ह वा अयम् अवर्षीद् इति श्रुत रावट् स्वाहा तपति वर्षन् विराड् रावट् स्वाहा ऽवस्फूर्जन् विद्युद् वर्षंस् त्वेष रावट् स्वाहा नशन्य् अवस्फूर्जन् वर्षन् भूत रावट् स्वाहा ॥
ऽवस्फूर्जन् : ⟨ अवस्फूर्जन्
मान्दा वशा ज्योतिष्मतीर् अमस्वरीः शुन्धो अज्रा उन्दतीः सुफेनाः ।
मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह नो ऽवत ॥
वृष्णो अश्वस्य सन्दानम् असि वृष्ट्यै त्वोपनह्यामि ॥
देवा वसव्या अग्ने सोम सूर्यापो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
देवाः शर्मण्या मित्र वरुणार्यमन्न् अपो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
देवाः सपीतयो ऽपां नपान् नराशंसापो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
यत् पृथिवीं व्युन्दन्ति ॥
आयन् नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः ।
प्र पर्जन्यः सृजतां रोदसी अनु धन्वना यन्तु वृष्टयः ॥
उदीरयता मरुतः समुद्रतो दिवो वृष्टिं वर्षयता पुरीषिणः ।
न वो दस्रा उपदस्यन्ति धेनवः शुभे कम् अनु रथा अवृत्सत ॥