सर्वाभ्यो देवताभ्यो यज्ञ आहृत्या इत्य् आहुः सर्वो वा एष यज्ञः सर्वाभ्यो हि देवताभ्यो यज्ञ आह्रियते सर्वाणि छन्दांस्य् अन्वाह सर्वाणि हि छन्दांसि यज्ञे प्रयुज्यन्ते ऽभिचरन्न् आहरेत् सर्वो वा एष यज्ञः सर्वेणैवैनं यज्ञेनाभिचरत्य् अदक्षिणस् तु स्यास् तत् स्विन् मेनिम् अकर् मेनिर् ह्य् अदक्षिणो ऽथ यो यक्ष्य इत्य् उक्त्वा न यजेत तम् एतेन याजयेत् सर्वो वा एष यज्ञः सर्वेणैवास्मै यज्ञेन प्रायश्चित्तिं विन्दत्य् उत्तरौत्तरः पुरोडाशो ज्यायान् भवत्य् उत्तरौत्तरो हि लोको ज्यायान् यथा वा इयम् एवम् असव् अथ वा अन्तरिक्षं नास्या रूपं नामुष्यास् तस्माद् यवमयो मध्यतो ऽथो एवम् इव ह्य् अन्तरिक्षस्य रूपं द्वादशकपालो भवति यद् वै त्रिस्त्रिस् तत् त्रैधातव्यायाः समृद्धं सर्वेषाम् अतिघातम् अवद्यत्य् अछम्बट्काराय यावता हि न प्राप्नुयात् तावता छम्बट्कुर्याद् एतद् वै तद् यद् आहुश् छम्बण् णासा इति वास इव वै यज्ञ ऊयते यत् तार्प्याणि विषीव्यन्ति यजुषां तद् रूपं यद् धेनवो दीयन्त उक्थामदानां तद् यद् धिरण्यं दीयते चन्द्रं गीयता इति वै सामाहुः साम्नां तद् रूपम् एतेन वै सृञ्जया अयजन्त ते श्रियो ऽन्तम् अगछंस् तस्मान् नातिबहु यष्टव्यम् ईश्वरो हि पराङ् अतिपत्तोर् यो वा एतेन यजते वि स छिनत्ति पुत्रो याजयितव्यो ऽनुसन्तत्यै ॥म्स्_२,४।५॥
णासा : फ़्न् एमेन्देद्। एद्।: णासा। च्फ़्। नोते ३