०३

त्रिर् माधाः ॥ इति तद् वाव त्रैधातव्या सहस्रं वा अस्मै तत् प्रायछद् ऋचः सामानि यजूंषि यद् वा इदं किं च तत् त्रैधातव्या तद् आप्नोति पशून् एव ॥म्स्_२,४।३॥

उदरं वै वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य यत् तप उपैति पाप्मानं वा एतत् स्तृणुते भ्रातृव्यं क्षुधम् एव तस्मिन् वा अवदेतां सेयम् अस्या अध्य् ऊर्ध्वा वाग् अवदत् ॥

उभा जिग्यथुर् न पराजयेथे न पराजिग्ये कतरश्चनैनोः ।
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥

इति सत्यम् आहेत्य् अब्रवीद् द्वे एव तृतीये आहर्तुर् एकं प्रतिग्रहीतुर् इति तौ वै तत्रैवातिष्ठेतां तस्माद् ऐन्द्रावैष्णवं त्रिरात्रस्य वा उपेप्सायै त्रैधातव्याह्रियते यावद् वै त्रिरात्रेणोपाप्नोति तावत् त्रैधातव्ययावरुन्द्धे तस्माद् आहुः सहस्रदक्षिणेत्य् उष्णिहाककुभा अन्वाह गायत्री वा उष्णिहाथ यान्य् एतानि चत्वार्य् अक्षराण्य् ऋच्य् अधि चतुष्पादो वा एते पशवो यथा वा इदं पुरोडाशे पुरोडाशो ऽध्य् एवं वा एतद् यद् ऋच्य् अध्य् अक्षराणि प्राणो वै गायत्री प्राणेन पशवो यता यद् उष्णिहाककुभा अन्वाह पशूनां यत्यै ॥

अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः ।
तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुछन् ॥