सीसेन क्लीबात् कार्यानृतं वै सीसम् अनृतं क्लीबो ऽनृतं सुरानृतेनैवानृताद् अनृतं क्रीणाति तद् आहुः कार्या वडबा दक्षिणेति सृत्वरीव ह्य् एषा सृत्वरी वडबाश्विनं प्रथमम् आलभन्ते ऽथ सारस्वतीम् अथैन्द्रम् एवम् एव वपाभिश् चरतीन्द्र एवैषु तद् अधिभवत्य् ऐन्द्रः पुनः प्रचरतां प्रथमो भवतीन्द्रं वा एतत् पुनर् आलभन्ते सेन्द्रियत्वायैन्द्री वपानाम् उत्तमा भवत्य् ऐन्द्रः पुरोडाशानां प्रथमो वीर्यं वा इन्द्रो वीर्य एवैनम् अभिसन्धत्तः प्रसवाय सावित्रो निर्वरुणत्वाय वारुणो मध्यतो ह्य् एष वरुणगृहीतः पश्चाद् वा एषा सृष्टा प्रतीचीनशीर्ष्णी यद् उपरिष्टात् पुरोडाशो भवत्य् अपिहित्या अछिद्रत्वाय सह समवत्तं भवति सहेडाम् उपह्वयन्ते संहित्यय् अथो इडाया अविदोहाय यद् वै सौत्रामण्याव्यृद्धं तद् अस्याः समृद्धं यद् अन्यदेवत्याः पुरोडाशा भवन्त्य् अन्यदेवत्याः पशवस् तद् अस्या व्यृद्धं सत् समृद्धम् अर्धं वै प्रजापतेर् आत्मनो धैर्यम् आसीद् अर्धं माल्व्यं यद् धैर्यं तत् पुरस्ताद् अकुरुत यन् माल्व्यं तत् पश्चात् पर्यौहत यद् धैर्यं सोमो वै स ततो ब्राह्मणम् असृजत तस्माद् ब्राह्मणः सर्व एव ब्रह्माभि धीरो यन् माल्व्यं सुरा वै सा ततो राजन्यम् असृजत तस्माज् ज्यायांश् च कनीयांश् च स्नुषा च श्वशुरश् च सुरां पीत्वा विलालपत आसते माल्व्यं हि तत् पाप्मा वै माल्व्यं तस्माद् ब्राह्मणः सुरां न पिबेत् पाप्मनात्मानं नेत् संसृजा इति तद् उतैतद् राष्ट्रीयाय ब्राह्मणं ब्रूयात् तद् य एवं विद्वान्त् सुरां पिबति न हैनं द्रूणात्य् एषा वै प्रजापतेर् वीर्यवती तनूर् वीर्यं प्रजापतिर् वीर्यम् अस्मिन् दधाति ॥म्स्_२,४।२॥
ततो यः सोमो ऽत्यरिच्यत तम् अग्ना उपप्रावर्तयत् ।
स्वाहेन्द्रशत्रुर् वर्धस्व ॥
इतीन्द्रस्याहैनं शत्रुम् अचिकीर्षद् इन्द्रम् अस्य शत्रुम् अकरोत् तथा वाक् स्वयम् एव व्यैत् स यं सोमं प्रावर्तयद् यस्मिंश् चाग्ना उपप्रावर्तयत् ता अग्नीषोमौ देवते प्राणापाना अभिसमभवतां स यावद् ऊर्ध्वबाहुः पराविध्यत् तावति व्यरमत यदि वा प्रवणं तावद् आसीद् यदि वाग्नेर् अधि तावद् आसीत् स वा इषुमात्रम् एवाह्ना तिर्यङ्ङ् अवर्धतेषुमात्रम् अन्वङ्ङ् अथो आहुर् अहोरात्रे एवेषुमात्रं तिर्यङ्ङ् अवर्धतेषुमात्रम् अन्वङ्ङ् इत्य् अथो आहुर् अर्धमासम् अथो मासम् अथो संवत्सरम् इति स वा इमाः सर्वाः स्नोत्याः पर्यशयत् तस्माद् वा इन्द्रो ऽबिभेत् तस्माद् उ त्वष्टाबिभेत् तस्येन्द्रः प्रत्तिम् ऐछत् तम् अस्मै प्रायछत् तस्मै त्वष्टा वज्रम् असिञ्चत् तपो वै स वज्र आसीत् तम् उद्यमं नाशक्नोद् अथ वै तर्हि विष्णुर् अन्या देवतासीत् सो ऽब्रवीद् विष्णा एहीदम् आहरिष्यावो येनायम् इदम् इति स त्रेधात्मानं विन्यधत्ताभिपर्यावर्ताद् अबिभेद् अस्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयं स यद् अस्यां तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥
अधा मा ॥ इति तद् विष्णवे ऽतिप्रायछत् तद् विष्णुः प्रत्यगृह्णात् ॥
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्व् आशिषः ॥
इति सो ऽवेद् अस्ति वावास्मिन्न् अन्तर् वीर्यम् इति स यद् अन्तरिक्षे तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥
द्विर् माधाः ॥
इति तद् विष्णवे ऽतिप्रायछत् तद् विष्णुः प्रत्यगृह्णात् ॥
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्व् आशिषः ॥
इति सो ऽवेद् अस्ति वावास्मिन्न् अन्तर् वीर्यम् इति स यद् दिवि तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीः ॥
सन्धां नु सन्दधावहै यथा त्वाम् एव प्रविशानीति सो ऽब्रवीद् यन् मां प्रविशेः किं मे ततः स्याद् इति सो ऽब्रवीत् त्वाम् एवेन्धीय तव भोगाय त्वां प्रविशेयम् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥