विश्वरूपो वै त्वाष्ट्र आसीत् त्रिशीर्षासुराणां स्वस्रीयः स सोमम् एकेन शीर्ष्णापिबत् सुराम् एकेनान्नम् एकेनावयत् स इन्द्रो ऽमन्यतायं वावेदं भविष्यतीति तेन समलभत तेन युगशरम् अपतत् स तक्षाणं तिष्ठन्तम् अब्रवीद् आधावेमान्य् अस्य शीर्षाणि छिन्द्धीति तस्य तक्षोपस्कन्द्य परशुना शीर्षाण्य् अछिनत् तस्मात् तक्ष्णे शिरो धृतं तस्माद् अस्यान्नम् अन्नाद्यं तस्य यत् सोमपं शिरा आसीत् स कपिञ्जलो ऽभवद् यत् सुरापं स कलविङ्को येनान्नम् आवयत् स तित्तिरिः स वै त्वष्टा पुत्रे हते सोमम् आहरद् ऋत इन्द्रं तम् अधः शतशले ऽसुनोद् अथो आहुः सहस्रशला इति तस्मिन् वा इन्द्र उपहवम् ऐछत तन् नोपाह्वयत तं प्रासहादाय नाड्या निरपिबत् स सोमपीथेन व्यार्ध्यत तस्मात् सोमो नानुपहूतेन पेयः सोमपीथेन ह व्यर्धुको भवति यद् इतो ऽमुच्यत तौ सिंहा अभवतां यद् इतस् तौ व्याघ्रौ यद् इतस् तौ वृकौ यत् प्रथमं निरष्टीवत् तत् कुवलम् अभवद् यद् द्वितीयं तद् बदरं यत् तृतीयं तत् कर्कन्धुर् यद् अधस्तात् सा सुरा तं वा एतयाश्विना अयाजयतां सौत्रामण्या स यैर् एव तद् इन्द्रियैर् वीर्यैर् व्यार्ध्यत तान्य् अस्मिन्न् आप्त्वाधत्तां सोमेनातिपुपुवानं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यं सोमो ऽतिपवते यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति राजसूयेनाभिषिषिचानं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति भूतिकामं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवति यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति ज्योगामयाविनं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य ज्योग् आमयति यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति नानार्तेन यष्टव्यम् इत्य् आहुर् आर्तयज्ञ इव ह्य् एष तद् आहुर् यष्टव्यम् एव सर्वो हि पुरुषा आर्तः सर्वो बुभूषति यद् आश्विन्य् अश्विनौ ह्य् अभिषज्यतां यत् सारस्वती वाग् वै सरस्वती वाचा ह्य् अभिषज्यतां यद् ऐन्द्रीन्द्रे हि तौ तानीन्द्रियाणि वीर्याण्य् आप्त्वाधत्ताम् ॥म्स्_२,४।१॥
अन्नाद्यं : फ़्न् थिस् स्होउल्द् बे अन्नाद्यम्।