कुवलसक्तुभिर् आश्विनं श्रीणाति बदरसक्तुभिर् ऐन्द्रं कर्कन्धुसक्तुभिः सारस्वतं वाग् वै सरस्वती वाचैवास्मिन्त् स्वादुमानं दधात्य् अथ यैनम् असा अश्लीलं वाग् अभिवदत्य् अत्यपविष्ट व्यार्धिष्टेति सैनं पुनः कल्याणं वदति सिंहा अध्वर्युर् ध्यायति व्याघ्रौ प्रतिप्रस्थाता वृकौ यजमान एषा सुरा भवति स यैर् एव तद् इन्द्रियैर् वीर्यैर् व्यृध्यते तान्य् अस्मिन्न् आप्त्वा धत्तो ब्राह्मणस्य मूर्धन्त् साद्या मेध्यत्वायान्नं वै सुरा मेध्यं वा अन्नं तेन मेध्यैका पुरोरुग् एका याज्यैकधास्मिन् वीर्यं दधाति ब्राह्मणः पाययितव्यस् तेन हविः क्रियत आत्मनापेयात्मन्न् एव वीर्यं धत्ते ऽग्नौ सर्वा होतव्याः समृद्ध्यै मध्यतो वा एष पाप्मना गृहीतो यत् समया व्येति मध्यत एवैनं पाप्मनो मुञ्चति यद् आहवनीये जुहुयान् न पाप्मना व्यावर्तेत क्रियेत भेषजम् अथ यद् दक्षिणे जुहोति वि पाप्मना वर्तते क्रियते भेषजम् अथ यद् विक्षारयत्य् एवम् इव ह्य् एष विक्षरति शतक्षरो भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति यद् वा एतस्य व्यार्धि यत् प्रामायि पितॄन् वा एतस्य तद् अगन् यत् पितृमतीभिर् अनुमन्त्रयन्ते पितृभ्य एवैनं तेन समीरयन्ति यत् तिस्रस् तृतीये हि लोके पितरो ऽथ यच् चत्वारो दिग्भ्य एवैनं तेन समीरयन्ति ॥म्स्_२,३।९॥