इन्द्राय शाक्वरायानुब्रूहि ॥ इति शक्वरीम् अनूच्य रेवत्या यजेद् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिर् व्यतिषजति पर्यूहम् अवद्यत्य् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिः पर्यूहति पशवो वै बृहत्य् अग्नी रुद्रो यद् बृहत्या वषट्कुर्याद् रुद्रायास्य पशून् अपिदध्याद् अथो बृहतीं ह्य् अयातयाम्नीं पशवो ऽनुप्रजायन्ते ऽनुवाक्यायाश् चत्वार्य् अक्षराणि याज्याम् अभ्यत्यूहत्य् अनुष्टुभं च सम्पादयति पङ्क्तिं च वाग् वा अनुष्टुप् प्रजापतिः पङ्क्तिर् वाचि वा एतत् प्रजापतिम् अप्य् अस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते ॥म्स्_२,३।७॥
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेण शुक्रां शुक्रेण ।
देवीं देवेनामृताम् अमृतेन सृजामि सं सोमेन ॥
सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व ॥
पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शस्वता तना ॥
वायोः पूतः पवित्रेण प्रत्यङ् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुत भोजनानि ये बर्हिषा नमौक्तिं न जग्मुः ॥
उपयामगृहीतो ऽस्य् अछिद्रां त्वाछिद्रेणाश्विभ्यां जुष्टं गृह्णाम्य् एष ते योनिर् अश्विभ्यां त्वोपयामगृहीतो ऽस्य् अछिद्रां त्वाछिद्रेण सरस्वत्यै जुष्टं गृह्णाम्य् एष ते योनिः सरस्वत्यै त्वोपयामगृहीतो ऽस्य् अछिद्रां त्वाछिद्रेणेन्द्राय सुत्राम्णे जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा सुत्राम्णे ॥
यद् अत्र शिष्टं रसिनः सुतस्य यम् अस्येन्द्रो अपिबञ् शचीभिः ।
अहं तम् अस्य मनसा घृतेन सोमं राजानम् इह भक्षयामि ॥
नाना हि वां देवहितं सदस् कृतं मा संसृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम एष मा मा हिंसिष्टं स्वं योनिम् आविशन्तौ ॥
द्वे स्रुती अशृणवं पित्πणाम् अहं देवानाम् उत मर्त्यानाम् ।
याभ्याम् इदं विश्वम् एजत् समेति यद् अन्तरा पितरं मातरं च ॥
ये भक्षयन्तो न वसून्य् आनशुर् यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।
या तेषाम् अवया दुरिष्टिः स्विष्टिं नस् तां विश्वकर्मा कृणोतु ॥
अयज्ञियान् यज्ञियान् मन्यमानः प्राणस्य विद्वान्त् समरे न धीरः ।
एनो महच् चकृवान् बद्ध एष तं विश्वकर्मन् प्रमुञ्चा स्वस्तये ॥
यजमानम् ऋषया एनसाहुर् विहाय प्रजाम् अनुतप्यमानाः ।