आग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्रं पञ्चकपालं दधि मधु घृतं धाना उदकं तत् संसृष्टं भवत्य् अर्यम्णे चरुर् भवति ऊद्ध्या एवाग्नेय ऐन्द्रः पञ्चकपालः पाङ्क्तो यज्ञः पङ्क्ती याज्यानुवाक्ये पाङ्क्ताः पशवः पाङ्क्तः पुरुषो यावान् एव पुरुषस् तम् आप्नोति स सर्वो भूत्वा पशून् आप्नोति पशव इव ह्य् एतत् संसृष्टम् अथो यावन्त एव पशवस् तान् अस्मै संसृजति तद् आहुर् ऐन्द्र एकादशकपालः कार्या इति ऐन्द्रा हि पशवो ऽथो आहुः प्राजापत्यं कार्यम् इति प्राजापत्या हि पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयत्य् अथैषो ऽर्यम्णे चरुर् यो ददाति सो ऽर्यमा दानम् अर्यमा दानकामा अस्मै प्रजा भवन्त्य् अग्नये भ्राजस्वते ऽष्टाकपालं निर्वपेत् सौर्यं चरुम् अग्नये भ्राजस्वते ऽष्टाकपालं चक्षुष्कामं याजयेद् अग्नेर् वै मनुष्या नक्तं चक्षुषा पश्यन्ति सूर्यस्य दिवैतौ वै चक्षुषः प्रदातारौ ता एव भागधेयेनोपासरत् ता अस्मै चक्षुः प्रयछतः समानं वै चक्षुर् दधातु यत् समानी देवता चरुम् अभितो भवति नानानम् एवास्मै चक्षुषी प्रतिदधाति यावद् अन्यतरेणाक्ष्णा पश्यति तावद् उभाभ्यां पश्येद् यच् चरुर् अन्तरा न स्याद् अथ यच् चरुर् अन्तरा भवति तस्माद् इदम् अन्तरा चक्षुषोर् विधृत्यै शुक्ला व्रीहयो भवन्ति श्वेता गा आज्याय दुहन्त्य् एवम् इव ह्य् असा आदित्यः समृद्ध्यै पयसि भवति पयो वै घृतं पयश् चक्षुः पयसैवास्मै पयश् चक्षुर् दधाति सौरीभिर् आदधाति चक्षुर् अस्मिन् दधाति ॥म्स्_२,३।६॥
देवा असुराणां वेशत्वम् उपायन्न् इन्द्रस् तु नाप्य् उपैत् तेषां वा इन्द्रियाणि वीर्याण्य् अपाक्रामन्न् अग्ने रथन्तरम् इन्द्रस्य बृहद् विश्वेषां देवानां वैरूपं सवितुर् वैराजं त्वष्टू रेवती मरुतां शक्वरी तानि वा इन्द्रो ऽन्वपाक्रामत् तैर् आत्मानम् अभिसमयुङ्क्त तैर् अभवद् यो भूतिकामः स्यात् तम् एतया याजयेद् एतैर् एवेन्द्रियैर् वीर्यैर् आत्मानम् अभिसंयुङ्क्ते तैर् भवति द्वादशकपालो भवति वैश्वदेवत्वायोत्तानानि कपालान्य् उपदधाति तत् स्विच् चरुम् अकर् अनिर्दाहायाभिशस्यमानं याजयेद् यस्य वै देवा अन्नम् अदन्त्य् अदन्ति तस्य मनुष्या अन्नं सर्वा वा एता देवताः सर्वा वावास्यैतद् देवता अन्नम् अजीघसद् अदन्ति हास्य मनुष्या अन्नम् ॥
इन्द्राय राथन्तरायानुब्रूहि ॥ इति रथन्तरस्या ऋचम् अनूच्य बृहत ऋचा यजेत् ॥
इन्द्राय बार्हतायानुब्रूहि ॥ इति बृहत ऋचम् अनूच्य रथन्तरस्य ऋचा यजेत् ॥
इन्द्राय वैरूपायानुब्रूहि ॥ इति वैरूपस्या ऋचम् अनूच्य वैराजस्य ऋचा यजेत् ॥
इन्द्राय वैराजायानुब्रूहि ॥ इति वैराजस्या ऋचम् अनूच्य वैरूपस्य ऋचा यजेत् ॥
इन्द्राय रैवतायानुब्रूहि ॥ इति रेवतीम् अनूच्य शक्वर्या यजेत् ॥