यद् अघ्रियत तद् घृतम् ॥ इति घृतस्य वा एतन् महिमानम् उदाचष्टे ऽथो महयत्य् एवैनत् पावमानस्य त्वा स्तोमेन गायत्रस्य वर्तन्योपांशोस् त्वा वीर्येणोत्सृजा इति यथा वा इदं वध्यम् उत्सृजत्य् उद्धरत्य् उन्नयत्य् एवं तद् एतावद् वा अस्ति स्तोमा ग्रहाश् छन्दांसि यावद् एवास्ति तेनास्मा आयुर् दधाति यज्ञेनास्मा आयुर् दधाति सर्व ऋत्विजः पर्याहुः सर्वे वा एत एतस्मै चिकित्सन्ति सर्व एवास्मा आयुर् दधति ब्रह्मणो हस्तम् आलभ्य पर्याहुर् ब्रह्म वै ब्रह्मा ब्रह्मणैवास्मिन् ब्रह्मायुर् दधाति हिरण्याद् अधि घृतं निष्पाययन्त्य् अमृतं वै हिरण्यम् आयुर् घृतम् अमृताद् एवैनम् अध्य् आयुर् निष्पाययन्ति निर् इव धयत्य् आयुर् एवात्मन् धत्ते तद् अस्मा आबध्नात्य् आयुषैनं समर्धयत्य् आग्नेय्याबध्नात्य् अग्निर् वै सर्वा देवताः सर्वाभिर् एवास्मिन् देवताभिर् आयुर् दधात्य् अग्निर् आयुस् तस्य मनुष्या आयुष्कृतस् तेनायुषायुष्मान् एधीति यो वै देवान् आयुष्मतश् चायुष्कृतश् च वेद सर्वम् आयुर् एति न पुरायुषः प्रमीयत एते वै देवा आयुष्मन्तश् चायुष्कृतश् च यद् इमे प्राणास् ते ऽस्मिन्न् आयुर् दधत्य् अश्विनोः प्राणो ऽसि तौ ते प्राणं दत्तां तेन जीवेतीमे वा एते प्राणास् तान् अस्मिन् दधाति तान् अस्माद् अनपक्रमिणः करोति दश देया दश ह्य् आत्मन् प्राणाः प्राणान् अस्मिन् दधात्य् अश्वो देयो वासो देयं हिरण्यं देयं गौर् देयो वरो देयो बहु देयम् ॥म्स्_२,३।५॥
दधति : फ़्न् एमेन्देद्। एद्।: दधाति
देवताः : फ़्न् एमेन्देद्। एद्।: देवता।