अग्निर् आयुस् तस्य मनुष्या आयुष्कृतस् तेनायुषायुष्मान् एधि ब्रह्मायुस् तस्य ब्राह्मणा आयुष्कृतस् तेनायुषायुष्मान् एधि यज्ञ आयुस् तस्य दक्षिणा आयुष्कृतस् तेनायुषायुष्मान् एध्य् अमृतम् आयुस् तस्य देवा आयुष्कृतस् तेनायुषायुष्मान् एध्य् अश्विनोः प्राणो ऽसि तौ ते प्राणं दत्तां तेन जीव मित्रावरुणयोः प्राणो ऽसि तौ ते प्राणं दत्तां तेन जीव बृहस्पतेः प्राणो ऽसि स ते प्राणं ददातु तेन जीव प्रजापतेः परमेष्ठिनः प्राणो ऽसि स ते प्राणं ददातु तेन जीव ॥म्स्_२,३।४॥
आग्नावैष्णवम् एकादशकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं चरुं पूर्वेद्युर् आमयाविनं याजयेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवास्मिन् यज्ञेन चायुर् दधाति वाक् सरस्वती ब्रह्म बृहस्पतिर् वाचा चैवास्मिन् ब्रह्मणा चायुर् दधात्य् अथो प्राणा वै देवताः प्राणान् वा एतत् पूर्वेद्युर् गृहीत्वोपवसति स श्वो भूत आग्नेयम् अष्टाकपालं निर्वपेत् सौम्यं पयसि चरुम् आदित्यं घृते चरुं वारुणं चरुं यवमयम् इयन्तम् अग्नये वैश्वानराय द्वादशकपालम् आमयाविनं याजयेद् यो वै प्रमीयते ऽग्निं तस्य शरीरं गछति सोमं रसो यद् आग्नेयः शरीरम् एवास्य तेन निष्क्रीणाति यत् सौम्यो रसं तेन यावान् एव तं निष्क्रीयेयं वा अदितिर् अस्याम् अधि प्रजाः प्रजायन्ते ऽस्याम् एवैनम् अधि प्रजानयतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोत्य् अग्नेर् आयुर् असि तेनास्मा अमुष्मा आयुर् देहीत्य् अग्निर् वै मनुष्याणाम् आयुषः प्रदाता सो ऽस्मा आयुः प्रयछति पञ्चभिर् जुहोति पाङ्क्तः पुरुषो यावान् एव पुरुषस् तं समीरयति यावान् एव पुरुषस् तं समीरयित्वायं वाव यः पवत एष प्राण आभ्यो वा एष दिग्भ्यो ऽधिपवत एतद्देवत्या वा इमा दिशो यथादेवतं वावैनम् एतद् आभ्यो दिग्भ्यो ऽधि समीरयित्वा प्राणान् अस्मिन् दधाति ॥
यन् नवम् ऐत् तन् नवनीतम् अभवद् यद् असर्पत् तत् सर्पिः ।