०२

एते वै सजातास् तान् अस्मिन् दधाति तान् अस्माद् अनपक्रमिणः करोति ॥म्स्_२,३।२॥

अथैषो ऽश्वः प्रतिगृह्यते स वा उभयतोदन् प्रतिगृहीतो निर्बभस्त्य् अस्येन्द्रियं च पशूंश् च वरुणो वा अश्वो वरुणदेवत्यो यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रसीदति तद् अश्वहविषा यष्टव्यं निर्वरुणत्वाय चतुष्कपाला भवन्ति चतुष्पाद् वा अश्वः कपालैर् एवैनम् आप्नोति यावन्तो ऽश्वास् तावन्तः पुरोडाशा भवन्ति सर्वत एवैनं मुञ्चत्य् एको ऽधि भवति यन् नोपस्मरति तस्मा एव स यः पुनः प्रतिग्रहिष्यन्त् स्यान् न स यजेत यद् धि पुनः प्रतिगृह्णीयात् पुनर् वरुणं प्रसीदेद् अथ यः पुनः प्रतिग्रहीष्यन्त् स्यात् तस्य वारुणा नेमाः स्युः सौर्यवारुणा नेमा यद् वारुणो वरुणाद् एवैनं तेन मुञ्चत्य् अथ यत् सौर्यः स्वाम् एव देवताम् उपप्रतिगृह्णात्य् आत्मनो ऽहिंसायय् एकविंशतिः सामिधेनीर् भवन्त्य् असा आदित्य एकविंशः प्रजापतिर् असा आदित्यः प्राजापत्यो ऽश्वो यावान् एवाश्वस् तम् आप्नोति सर्वे वा अन्ये पशवो योनिमन्तः पुरुषयोनयो ऽयोनिर् अश्वो ऽप्सुजा यद् एषो ऽपोनप्त्रीयश् चरुर् भवति योनिमन्तम् एवैनम् अकः स्व एवैनं योनौ प्रतिष्ठापयति ॥

यस् ते राजन् वरुण गायत्रछन्दाः पाशो ब्रह्मन् प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुण त्रिष्टुप्छन्दाः पाशः क्षत्रे प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुण जगच्छन्दाः पाशो विशि प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा ॥