०१

एते वै वरुणस्य पाशास् तत एनं मुञ्चति ॥म्स्_२,३।१॥

वैश्वदेवं चरुं निर्वपेद् भ्रातृव्यवान् देवाश् च वा असुराश् चास्पर्धन्त ते देवाः सङ्ग्रहणेनायजन्त ते यत् किञ्चासुराणां स्वम् आसीत् तत् समगृह्णन् मनांसि वावैषां तत् समगृह्णंस् ते ऽमनसः पराभवन् भ्रातृव्यवान् यजेत मनोग्रहणं वा एतन् मनांसि वा एतद् भ्रातृव्याणां सङ्गृह्णाति ते ऽमनसः पराभवन्ति ग्रामकामो यजेत मनोग्रहणं वा एतन् मनांसि वा एतत् सजातानां सङ्गृह्णाति ते ऽस्मान् मनोगृहीता नापयन्ति सर्वेषां सजातानां गृहाद् आज्यम् आहरेयुर् यावताम् एव कियतां च गृहाद् आज्यम् आहरन्ति तेषां सर्वेषां मनांसि सङ्गृह्णाति ते ऽस्मान् मनोगृहीता नापयन्त्य् आमनेन जुहोत्य् आमनस एवैनान् करोति ॥

आमनस्य देव ये सजाताः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृदा तान् मा आमनसस् कृधि स्वाहामनस्य देव ये पुत्राः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृडा तान् मा आमनसस् कृधि स्वाहामनस्य देव याः स्त्रियः समनसस् ता अहं कामये हृदा ता मां कामयन्तां हृदा ता मा आमनसस् कृथि स्वाहामनस्य देव ये पशवः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृदा तान् मा आमनसस् कृधि स्वाहा ॥

एते वै सजाताः सजाता इव पुत्रा इव स्त्रिय इव पशव इव तैर् आत्मानम् अभिसंयुङ्क्ते तैर् भवति पृषती गौर् धेनुर् दक्षिणा सा हि वैश्वदेव्य् अथ यद् वैश्वदेवीष्टिर् वैश्वदेवीर् वा इमाः प्रजास् ता एवावारुन्द्ध ता आद्या अकृत बहिरात्मं वै प्रयाजानुयाजा आत्मा देवता यत् प्रयाजानुयाजानां पुरस्ताद् वोपरिष्टाद् वा जुहुयाद् बहिरात्मं सजातान् दधीताथ यन् मध्यतो जुहोति मध्यत एव सजातान् आत्मन् धत्ते यदि कामयेत ताजग् एयुस् ताजक् परेयुर् इति दारुमयेण जुहुयाच् चराचरा हि वनस्पतयो यदि कामयेत ध्रुवाः स्युः कृछ्राद् एयुर् इति मृन्मयेन जुहुयात् ॥

ध्रुवा हीयं ध्रुवो सि ध्रुवस् त्वं देवेष्व् एधि ध्रुवो ऽहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुविद् उग्रो ऽस्य् उग्रस् त्वं देवेष्व् एध्य् उग्रो ऽहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुविद् अभिभूर् अस्य् अभिभूस् त्वं देवेष्व् एध्य् अभिभूर् अहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुवित् परिभूर् असि परिभूस् त्वं देवेष्व् एधि परिभूर् अहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुवित् सूरिर् असि सूरिस् त्वं देवेष्व् एधि सूरिर् अहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुवित् ॥