यस्य सान्नाय्यं चन्द्रमा अभ्युदियाद् ये पुरोडाश्याः स्युस् तांस् त्रेधा कुर्याद् ये मध्यमास् तम् अग्नये दात्रे ऽष्टाकपालं निर्वपेद् ये स्थविष्ठास् तम् इन्द्राय प्रदात्रे दधंश् चरुं ये क्षोदिष्ठास् तं विष्णवे शिपिविष्टाय शृते चरुम् अग्निर् वै मध्यमस्य दातेन्द्रो ज्येष्ठस्य प्रदाताथ यत् क्षोदिष्ठं तञ् शिपिविष्टं तद् आप्नोति पशून् एव सोमो वा एतस्यातिरिच्यते यस्य सान्नाय्यं चन्द्रमा अभ्युदेति स वै पशून् एवाभ्यतिरिच्यते यः पशुकामः स्यात् सो ऽमावास्याम् इष्ट्वा वत्सान् अपाकुर्याद् ये पुरोडाश्याः स्युस् तांस् त्रेधा कुर्याद् ये क्षोदिष्ठास् तम् अग्नये सनिमते ऽष्टाकपालं निर्वपेद् ये मध्यमास् तं विष्णवे शिपिविष्टाय शृते चरुं ये स्थविष्ठास् तम् इन्द्राय प्रदात्रे दधंश् चरुम् अग्निर् एवास्मै तद् विन्दति यद् इह विष्णुस् तद् यद् अन्तरिक्ष इन्द्रस् तद् यद् दिवि सत्वानो गा इछन्ति यद् एते तण्डुला विभाज्यन्ते सत्वानो वा एत एष्टारो ऽभिरोद्धार एवाग्नेयम् अष्टाकपालं निर्वपेद् गतश्रीस् तस्य गौर् धेनुर् दक्षिणा स प्राङ् प्रयाय वैष्णवं त्रिकपालं तस्य वडबा धेनुर् दक्षिणा स प्राङ् प्रयाय गिरिं गत्वापो वा प्रजापत्यं घृते चरुं तस्य पुरुषी धेनुर् दक्षिणा यद् आग्नेय इमां तेनाक्रमते यद् वैष्णवो ऽन्तरिक्षं तेन यत् प्राजापत्यो ऽमुं तेन लोकं यत् प्राङ् प्रयात्य् अभि स्विद् एवाक्रमीद् यद् गिरिं गछत्य् अपो वान्तं स्विद् एवागन् यत् तिस्रो धेनवो दक्षिणा त्रयो वा इमे लोका इमान् अस्मै लोकान् धेनुर् अकर् इमान् अस्मै लोकान् प्रदापयति प्रत्तान् ह वा अस्मा इमांल् लोकान् दुहे य एवं वेद सौमेन्द्रं चरुं निर्वपेञ् श्यामाकं सोमवामिन इन्द्रो वै त्वष्टुः सोमम् अपिबद् अनुपहूयमानस् तस्योर्ध्वः सोमपीथो ऽपतत् ते श्यामाका अभवन्त् सोमपीथेन वा एष व्यृध्यते यः सोमं वमिति यत् सौम्यः सोमपीथेनैवैनं समर्धयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं वमिति यद् ऐन्द्र इन्द्रियेणैवैनं वीर्येण समर्धयति शिथिर इव हि वा एतस्य सोमपीथो ऽथैष सोमं वमिति यञ् श्यामाकतण्डुलैः श्रीणाति सोमपीथस्य धृत्यै ॥म्स्_२,२।१३॥
इह : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
आग्नेयम् अष्टाकपालं निर्वपेन् मैत्रावरुणीं पयस्याम् आमयाविनं याजयेद् ऋद्ध्या एवाग्नेयो ऽथो अस्थन्वन्तम् एवैनं कृत्वा प्रतिष्ठापयतीश्वरा वै पयस्या ऋते पशोर् अशान्ता निर्मृजः पशुर् अप्य् आलभ्यः शन्त्या अनिर्मार्गायैते वै पशवो यद् व्रीहयश् च यवाश् च यद् व्रीहिमयः पुरोडाशो भवति तेनैव पशुर् आलभ्यते शान्त्या अनिर्मार्गाय मैत्रावरुणी ब्राह्मणस्य स्यान् मैत्रावरुणो हि ब्राह्मणो देवतयैन्द्रवारुणी राजन्यस्य स्याद् ऐन्द्रवारुणो हि राजन्यो देवतयाग्निवारुणी वैश्यस्य स्याद् अग्निर् वै सर्वा देवता अत्र वैश्यस्यापि देवतामयाविनं याजयेत् स्वाम् एव देवतां प्रायश्चित्त्या उपासरद् वरुणगृहीतो वा एष य आमयावी वरुणाद् एवैनं तेन मुञ्चति पयो वै पुरुषः पय एतस्यामयति पयसैवास्य पयो निष्क्रीणाति यद् व्यूहति विकृत्य हि शल्यं मध्यतो निर्हरन्ति तद् यक्ष्मं वावास्यैतन् मध्यतो निर्हरन्त्य् अथ यत् पुनः समुह्याग्नये समवद्यति यथा शल्यं निर्हृत्योष्णीषेण वेष्टयन्त्य् एवं तद् भूतिकामं याजयेत् स्वाम् एव देवतां प्रायश्चित्त्या उपासरद् वरुणगृहीतो वा एष यो भूतिकामो वरुणाद् एवैनं तेन मुञ्चति पयो वै पुरुषः पय एष इछति यो भूतिम् इछति पयसैवास्मै पयो ऽवरुन्द्धे यद् व्यूहति यज्ञस्य गोपीथायाथ यत् पुनः समूहति भूत्यैवैनं समूहति ग्रामकामं याजयेत् स्वाम् एव देवतां प्रायश्चित्त्या उपासरद् वरुणगृहीतो वा एष यो ग्रामकामो वरुणाद् एवैनं तेन मुञ्चति पयो वै पुरुषः पय एष इछति यो ग्रामम् इछति पयसैवास्मै पयो ऽवरुन्द्द्धे यद् व्यूहति यज्ञस्य गोपीथायाथ यत् पुनः समूहति ग्रामेणैवैनं समूहत्य् एककपालान् जुहोत्य् अत्रात्र वै वरुणस्य पाशास् तत एनं मुञ्चति यन् नाना जुहुयाद् विकर्षः स यज्ञस्याग्नौ सर्वे होतव्याः समृद्ध्यै ॥
या वां मित्रावरुणा ओजस्या तनूस् तया वां विधेम तयेमम् अमुं मुञ्चतम् अंहसो या वां मित्रावरुणौ सहस्या तनूस् तया वां विधेम तयेमम् अमुं मुञ्चतम् अंहसो या वां मित्रावरुणौ यातव्या तनूस् तया वां विधेम तयेमम् अमुं मुञ्चतम् अंहसो या वां मित्रावरुणौ रक्षस्या तनूस् तया वां विधेम तयेमम् अमुं मुञ्चतम् अंहसो या वां मित्रावरुणा ओजस्या सहस्या यातव्या रक्षस्या तनूस् तया वाम् अविधाम तयेमम् अमुम् अमौक्तम् अंहसो यस् ते राजन् वरुण देवेषु पाशस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुणान्ने पाशस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुण द्विपात्सु चतुष्पात्सु पशुषु पाशस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुणौषधीषु वनस्पतिष्व् अप्सु पृथिव्यां दिक्षु पाशस् तं त एतेनावयजे तस्मै ते स्वाहा ॥