इन्द्राय मन्युमते मनस्वता एकादशकपालं निर्वपेत् सङ्ग्रामे मन्युना वै वीर्यं क्रियत इन्द्रियेण जयति वीर्यं चैवैष्व् इन्द्रियं च जित्यै दधाति मन्यवे चरुं निर्वपेत् सङ्ग्रामे मन्युना वै वीर्यं क्रियते वीर्यम् एवैषु जित्यै दधाति यं जीवग्राहं गृह्णीयुस् तं विकृन्तेयुर् मन्योः स्विद् एव सत्यम् अकर् इन्द्राय मनस्वता एकादशकपालं निर्वपेद् यः कामयेत पुन्यः स्याम् अनाधृष्य इति मनो वै श्रीस् त्विषिः श्रियम् एवास्मिंस् त्विषिं दधाति संवत्सरं नु पुरा मनसो न कीर्तयेत् संवत्सरेण वा अनाप्तम् आप्यते संवत्सरेणैवास्मा आप्त्वा श्रियं त्विषिं दधाति ॥म्स्_२,२।१२॥