११

ऐन्द्रम् एककपालं निर्वपेन् निरुद्धं याजयेद् आ प्रेहि परमस्याः परावता इति याज्यानुवाक्ये स्यातां परावतं वा एष गतो यो निरुद्धः परावत एवैनम् अध्य् आप्त्वावगमयत्य् ऐन्द्रं त्रयोदशकपालं निर्वपेन् निरुद्धं याजयेद् अतिरिक्तं वै त्रयोदशम् अतिरिक्तो निरुद्धो ऽतिरिक्ताद् एवैनम् अतिरिक्तम् आप्त्वावगमयतीन्द्राय वज्रिणा एकादशकपालं निर्वपेद् इन्द्राय वृत्रघ्न एकादशकपालम् इन्द्राय वृत्रतूरा एकादशकपालं यस्य भ्रातृव्यः सोमेन यजेत वज्रं वा एष भ्रातृव्यायोञ्श्रयति यः सोमेन यजते यद् वज्रिणे वज्रेणैवास्य वज्रं स्तृणुते यद् वृत्रघ्ने भ्रातृव्यो वै वृत्रो हन्त्य् एवैनं यद् वृत्रतूरे भ्रातृव्यो वै वृत्रस् तरत्य् एवैनम् इन्द्राय क्षेत्रञ्जयायैकादशकपालं निर्वपेद् यः क्षेत्रे पशुषु वा विवदेतेन्द्रो वै देवानां क्षेत्रञ्जयस् तम् एव भागधेयेनोपासरत् सो ऽस्मै क्षेत्रं पशून् जयतीन्द्रायाधिराजायैकादशकपालं निर्वपेद् यत्र राजानः सदृशा इव स्युर् इन्द्रो वै देवानाम् अधिराजस् तम् एव भागधेयेनोपासरत् स एनम् आधिराज्यं गमयति ॥म्स्_२,२।११॥